Mantra 1
अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे। यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी। अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥
अस्तु॑ । श्रौष॑ट् । पु॒रः । अ॒ग्निम् । धि॒या । द॒धे॒ । आ । नु । तत् । शर्धः॑ । दि॒व्यम् । वृ॒णी॒म॒हे॒ । इ॒न्द्र॒वा॒यू इति॑ । वृ॒णी॒म॒हे॒ । यत् । ह॒ । क्रा॒णा । वि॒वस्व॑ति । नाभा॑ । स॒म्ऽदायि॑ । नव्य॑सी । अध॑ । प्र । सु । नः॒ । उप॑ । य॒न्तु॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥
Mantra 2
यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑। यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म्। धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒: सोम॑स्य॒ स्वेभि॑र॒क्षभि॑: ॥
यत् । ह॒ । त्यत् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तात् । अधि॑ । आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ । अनृ॑तम् । स्वेन॑ । म॒न्युना॑ । दक्ष॑स्य । स्वेन॑ । म॒न्युना॑ । यु॒वोः । इ॒त्था । अधि॑ । सद्म॑ऽसु । अप॑श्याम । हि॒र॒ण्यय॑म् । धी॒भिः । च॒न । मन॑सा । स्वेभिः॑ । अ॒क्षऽभिः॑ । सोम॑स्य । स्वेभिः॑ । अ॒क्षऽभिः॑ ॥
Mantra 3
यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाऽऽश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑:। यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा। प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥
यु॒वाम् । सोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ । यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ । प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥
Mantra 4
अचे॑ति दस्रा॒ व्यू१॒॑नाक॑मृण्वथो यु॒ञ्जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु। अधि॑ वां॒ स्थाम॑ ब॒न्धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑। प॒थेव॒ यन्ता॑वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रज॑: ॥
अचे॑ति । द॒स्रा॒ । वि । ऊँ॒ इति॑ । नाक॑म् । ऋ॒ण्व॒थः॒ । यु॒ञ्जते॑ । वा॒म् । र॒थ॒ऽयुजः॑ । दिवि॑ष्टिशु । अ॒ध्व॒स्मानः॑ । दिवि॑ष्टिषु । अधि॑ । वा॒म् । स्थाम॑ । व॒न्धुरे॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ । प॒थाऽइ॑व । यन्तौ॑ । अ॒नु॒ऽशास॑ता । रजः॑ । अञ्ज॑सा । सास॑ता । रजः॑ ॥
Mantra 5
शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम्। मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥
शची॑भिः । नः॒ । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । दिवा॑ । नक्त॑म् । द॒श॒स्य॒त॒म् । मा । वा॒म् । रा॒तिः । उप॑ । द॒स॒त् । कदा॑ । च॒न । अ॒स्मत् । रा॒तिः । कदा॑ । च॒न ॥
Mantra 6
वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिद॑:। ते त्वा॑ मदन्तु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से। गी॒र्भिर्गि॑र्वाह॒: स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥
वृष॑न् । इ॒न्द्र॒ । वृ॒ष॒ऽपाना॑सः । इन्द॑वः । इ॒मे । सु॒ताः । अद्रि॑ऽसुतासः । उ॒त्ऽभिदः॑ । तुभ्य॑म् । सु॒तासः॑ । उ॒त्ऽभिदः॑ । ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने॑ । म॒हे । चि॒त्राय॑ । राध॑से । गीः॒ऽभिः । गि॒र्वा॒हः॒ । स्तव॑मानः । आ । ग॒हि॒ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥
Mantra 7
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः। यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन। वि तां दु॑ह्रे अर्य॒मा क॒र्तरि॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥
ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः । यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन । वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥
Mantra 8
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः। यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम्। अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥
मो इति॑ । सु । वः॒ । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । मा । उ॒त । जा॒रि॒षुः॒ । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षुः॒ । यत् । वः॒ । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् । अ॒स्मासु॑ । तत् । म॒रु॒तः॒ । यत् । च॒ । दुः॒ऽतर॑म् । दि॒धृ॒त । यत् । च॒ । दुः॒ऽतर॑म् ॥
Mantra 9
द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑ध॒: कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः। तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः। तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ॥
द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष॑म् । पूर्वः॑ । अङ्गि॑राः । प्रि॒यऽमे॑धः॑ । कण्वः॑ । अत्रिः॑ । मनुः॑ । वि॒दुः॒ । ते । मे॒ । पूर्वे॑ । मनुः॑ । वि॒दुः॒ । तेषा॑म् । दे॒वेषु॑ । आऽय॑तिः । अ॒स्माक॑म् । तेषु॑ । नाभ॑यः । तेषा॑म् । प॒देन॑ । महि॑ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति॑ । आ । न॒मे॒ । गि॒रा ॥
Mantra 10
होता॑ यक्षद्व॒निनो॑ वन्त॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभि॑: पुरु॒वारे॑भिरु॒क्षभि॑:। ज॒गृ॒भ्मा दू॒र आ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑। अधा॑रयदर॒रिन्दा॑नि सु॒क्रतु॑: पु॒रू सद्मा॑नि सु॒क्रतु॑: ॥
होता॑ । य॒क्ष॒त् । व॒निनः॑ । व॒न्त॒ । वार्य॑म् । बृह॒स्पतिः॑ । य॒ज॒ति॒ । वे॒नः । उ॒क्षऽभिः॑ । पु॒रु॒ऽवारे॑भिः । उ॒क्षऽभिः॑ । ज॒गृ॒म्भ । दू॒रेऽआ॑दिशम् । श्लोक॑म् । अद्रेः॑ । अध॑ । त्मना॑ । अधा॑रयत् । अ॒रि॒रिन्दा॑नि । सु॒ऽक्रतुः॑ । पु॒रु । सद्मा॑नि । सु॒ऽक्रतुः॑ ॥
Mantra 11
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ। अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥
ये । दे॒वा॒सः॒ । दि॒वि । एका॑दश । स्थ । पृ॒थि॒व्याम् । अधि॑ । एका॑दश । स्थ । अ॒प्सु॒ऽक्षितः॑ । म॒हि॒ना । एका॑दश । स्थ । ते । दे॒वा॒सः॒ । य॒ज्ञम् । इ॒मम् । जु॒ष॒ध्व॒म् ॥