Mantra with Swara
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व। ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑:। न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
अ॒स्याः । ऊँ॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ । ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑ऽभिः । द॒स्म॒ । सा॒धुऽभिः॑ । न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥
Mantra without Swara
अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व। ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभि:। नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥
अस्याः। ऊँ इति। सु। नः। उप। सातये। भुवः। अहेळमानः। ररिऽवान्। अजऽअश्व। श्रवस्यताम्। अजऽअश्व। ओ इति। सु। त्वा। ववृतीमहि। स्तोमेऽभिः। दस्म। साधुऽभिः। नहि। त्वा। पूषन्। अतिऽमन्ये। आघृणे। न। ते। सख्यम्। अपऽह्नुवे ॥ १.१३८.४
Ashtak » 2
Adhyay » 2
Varga » 2
Mantra » 4
