Mantra with Swara
तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒: सोमं॑ दुह॒न्त्यद्रि॑भिः। अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये। अ॒यं वां॑ मित्रावरुणा॒ नृभि॑: सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥
ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वान्चा॑ । सोम॑ऽपीतये । अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥
Mantra without Swara
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभि: सोमं दुहन्त्यद्रिभिः। अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये। अयं वां मित्रावरुणा नृभि: सुतः सोम आ पीतये सुतः ॥
ताम्। वाम्। धेनुम्। न। वासरीम्। अंशुम्। दुहन्ति। अद्रिऽभिः। सोमम्। दुहन्ति। अद्रिऽभिः। अस्मऽत्रा। गन्तम्। उप। नः। अर्वाञ्चा। सोमऽपीतये। अयम्। वाम्। मित्रावरुणा। नृऽभिः। सुतः। सोमः। आ। पीतये। सुतः ॥ १.१३७.३
Ashtak » 2
Adhyay » 2
Varga » 1
Mantra » 3
