Mantra with Swara
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे। आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः। इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒: सोमा॑: शु॒क्रा गवा॑शिरः ॥
सु॒षु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । मत्स॒राः । इ॒मे । आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥
Mantra without Swara
सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे। आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः। इमे वां मित्रावरुणा गवाशिर: सोमा: शुक्रा गवाशिरः ॥
सुषुम। आ। यातम्। अद्रिऽभिः। गोऽश्रीताः। मत्सराः। इमे। सोमासः। मत्सराः। इमे। आ। राजाना। दिविऽस्पृशा। अस्मऽत्रा। गन्तम्। उप। नः। इमे। वाम्। मित्रावरुणा। गोऽआशिरः। सोमाः। शुक्राः। गोऽआशिरः ॥ १.१३७.१
Ashtak » 2
Adhyay » 2
Varga » 1
Mantra » 1
