Mantra with Swara
तुभ्य॑मु॒षास॒: शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑। तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते। अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥
तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒वति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दम्ऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ । तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ । अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥
Mantra without Swara
तुभ्यमुषास: शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु। तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते। अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥
तुभ्यम्। उषसः। शुचयः। परावति। भद्रा। वस्त्रा। तन्वते। दम्ऽसु। रश्मिषु। चित्रा। नव्येषु। रश्मिषु। तुभ्यम्। धेनुः। सबःऽदुघा। विश्वा। वसूनि। दोहते। अजनयः। मरुतः। वक्षणाभ्यः। दिवः। आ। वक्षणाभ्यः ॥ १.१३४.४
Ashtak » 2
Adhyay » 1
Varga » 23
Mantra » 4
