Mantra with Swara
मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णास॒: सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑: क्रा॒णा अ॒भिद्य॑वः। यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑:। स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑: ॥
मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । वायो॒ इति॑ । इन्द॑वः । अ॒स्मत् । क्रा॒णासः॑ । सुऽकृ॑ताः । अ॒भिऽद्य॑वः । गोऽभिः॑ । क्रा॒णाः । अ॒भिऽद्य॑वः । यत् । ह॒ । क्रा॒णाः । इ॒रध्यै॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ । स॒ध्री॒ची॒नाः । नि॒ऽयुतः॑ । दा॒वने॑ । धियः॑ । उप॑ । ब्रु॒व॒ते॒ । ई॒म् । धियः॑ ॥
Mantra without Swara
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणास: सुकृता अभिद्यवो गोभि: क्राणा अभिद्यवः। यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतय:। सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धिय: ॥
मन्दन्तु। त्वा। मन्दिनः। वायो इति। इन्दवः। अस्मत्। क्राणासः। सुऽकृताः। अभिऽद्यवः। गोऽभिः। क्राणाः। अभिऽद्यवः। यत्। ह। क्राणाः। इरध्यै। दक्षम्। सचन्ते। ऊतयः। सध्रीचीनाः। निऽयुतः। दावने। धियः। उप। ब्रुवते। ईम्। धियः ॥ १.१३४.२
Ashtak » 2
Adhyay » 1
Varga » 23
Mantra » 2
