Mantra with Swara
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो न॑: पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम्। दू॒रे च॒त्ताय॑ च्छन्त्स॒द्गह॑नं॒ यदिन॑क्षत्। अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वत॑: ॥
यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒ऽयुधा॑ । यः । नः॒ । पृ॒त॒न्यात् । अप॑ । तम्ऽत॑म् । इत् । ह॒त॒म् । वज्रे॑ण । तम्ऽत॑म् । इत् । ह॒त॒म् । दू॒रे । च॒त्ताय॑ । छ॒न्त्स॒त् । गह॑नम् । यत् । इन॑क्षत् । अ॒स्माक॑म् । शत्रू॑न् । परि॑ । शू॒र॒ । वि॒श्वतः॑ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः॑ ॥
Mantra without Swara
युवं तमिन्द्रापर्वता पुरोयुधा यो न: पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम्। दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत्। अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत: ॥
युवम्। तम्। इन्द्रापर्वता। पुरःऽयुधा। यः। नः। पृतन्यात्। अप। तम्ऽतम्। इत्। हतम्। वज्रेण। तम्ऽतम्। इत्। हतम्। दूरे। चत्ताय। छन्त्सत्। गहनम्। यत्। इनक्षत्। अस्माकम्। शत्रून्। परि। शूर। विश्वतः। दर्मा। दर्षीष्ट। विश्वतः ॥ १.१३२.६
Ashtak » 2
Adhyay » 1
Varga » 21
Mantra » 6
