Mantra 1
अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिष॑: ॥
अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् । यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा । घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥
Mantra 2
यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः। परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नाम्। शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विश॒: प्राव॑न्तु जू॒तये॒ विश॑: ॥
यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः । परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् । शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥
Mantra 3
स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहन्त॒रः प॑र॒शुर्न द्रु॑हन्त॒रः। वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रम्। नि॒:षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥
सः । हि । पु॒रु । चि॒त् । ओज॑सा । वि॒रुक्म॑ता । दीद्या॑नः । भव॑ति । द्रु॒ह॒म्ऽत॒रः । प॒र॒शुः । न । द्रु॒ह॒न्त॒रः । वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् । निः॒ऽसह॑माणः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥
Mantra 4
दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से। प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑। स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥
दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु॑ । दुः॒ । यथा॑ । वि॒दे । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । दा॒ष्टि॒ । अव॑से । अ॒ग्नये॑ । दा॒श्टि॒ । अव॑से । प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ । स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥
Mantra 5
तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात्। आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑। भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यन्तो॑ अ॒जरा॑: ॥
तम् । अ॒स्य॒ । पृ॒क्षम् । उप॑रासु । धी॒म॒हि॒ । नक्त॑म् । यः । सु॒दर्श॑ऽतरः । दिवा॑ऽतरात् । अप्र॑ऽआयुषे । दिवा॑तरात् । आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु॒ । शर्म॑ । न । सू॒नवे॑ । भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥
Mantra 6
स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनि॑:। आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑। अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषन्त॒ पन्थां॒ नर॑: शु॒भे न पन्था॑म् ॥
सः । हि । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वणिः॑ । अप्न॑स्वतीषु । उ॒र्वरा॑सु इ॒ष्टनिः॑ । आर्त॑नासु । इ॒ष्टनिः॑ । आद॑त् । ह॒व्यानि॑ । आ॒ऽद॒दिः । य॒ज्ञस्य॑ । के॒तुः । अ॒र्हणा॑ । अध॑ । स्म॒ । अ॒स्य॒ । हर्ष॑तः । हृषी॑वतः । विश्वे॑ । जु॒ष॒न्त॒ । पन्था॑म् । नरः॑ । शु॒भे । न । पन्था॑म् ॥
Mantra 7
द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच॑न्त॒ भृग॑वो म॒थ्नन्तो॑ दा॒शा भृग॑वः। अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षाम्। प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥
द्वि॒ता । यत् । ई॒म् । की॒स्तासः॑ । अ॒भिऽद्य॑वः । न॒म॒स्यन्तः॑ । उ॒प॒ऽवोच॑न्त । भृग॑वः । म॒श्नन्तः॑ । दा॒शा । भृग॑वः । अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् । प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒श्ट॒ । मेधि॑रः ॥
Mantra 8
विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे। अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या। अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वय॑: ॥
विश्वा॑साम् । त्वा॒ । वि॒शाम् । पति॑म् । ह॒वा॒म॒हे॒ । सर्वा॑साम् । स॒मा॒नम् । दम्ऽप॑तिम् । भु॒जे । स॒त्यऽगि॑र्वाहसम् । भु॒जे । अति॑थिम् । मानु॑षाणाम् । पि॒तुः । न । यस्य॑ । आ॒स॒या । अ॒मी इति॑ । च॒ । विश्वे॑ । अ॒मृता॑सः । आ । वयः॑ । ह॒व्या । दे॒वेषु॑ । आ । वयः॑ ॥
Mantra 9
त्वम॑ग्ने॒ सह॑सा॒ सह॑न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये। शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑:। अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ॥
त्वम् । अ॒ग्ने॒ । सह॑सा । सह॑न्ऽतमः । शु॒ष्मिन्ऽत॑मः । जा॒य॒से॒ । दे॒वऽता॑तये । र॒यिः । न । दे॒वऽता॑तये । शु॒ष्मिन्ऽत॑मः॑ । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ । अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः॑ । न । अ॒ज॒र॒ ॥
Mantra 10
प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑। प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे। अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ॥
प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ । प्रति॑ । यत् । ई॒म् । ह॒विष्मान् । विश्वा॑सु । क्षासु॑ । जोगु॑वे । अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥
Mantra 11
स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभि॒: सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑। महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै। महि॑ स्तो॒तृभ्यो॑ मघवन्त्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥
सः । नः॒ । नेदि॑ष्ठम् । ददृ॑शानः । आ । भ॒र॒ । अग्ने॑ । दे॒वेभिः॑ । सऽच॑नाः । सुऽचे॒तुना॑ । म॒हः । र॒यः । सु॒ऽचे॒तुना॑ । महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै । महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥