Mantra with Swara
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः। सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒: श्रव॒ ऐष॑न्त प॒ज्राः ॥
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः । सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥
Mantra without Swara
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः। सुबन्धवो ये विश्या इव व्रा अनस्वन्त: श्रव ऐषन्त पज्राः ॥
पूर्वाम्। अनु। प्रऽयतिम्। आ। ददे। वः। त्रीन्। युक्तान्। अष्टौ। अरिऽधायसः। गाः। सुऽबन्धवः। ये। विश्याःऽइव। व्राः। अनस्वन्तः। श्रवः। ऐषन्त। पज्राः ॥ १.१२६.५
Ashtak » 2
Adhyay » 1
Varga » 11
Mantra » 5
