Mantra with Swara
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑: स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति। म॒द॒च्युत॑: कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥
च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ । म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥
Mantra without Swara
चत्वारिंशद्दशरथस्य शोणा: सहस्रस्याग्रे श्रेणिं नयन्ति। मदच्युत: कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥
चत्वारिंशत्। दशऽरथस्य। शोणाः। सहस्रस्य। अग्रे। श्रेणिम्। नयन्ति। मदऽच्युतः। कृशनऽवतः। अत्यान्। कक्षीवन्तः। उत्। अमृक्षन्त। पज्राः ॥ १.१२६.४
Ashtak » 2
Adhyay » 1
Varga » 11
Mantra » 4
