Mantra with Swara
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म्। श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् । श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥
Mantra without Swara
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदम्। शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥
शतम्। राज्ञः। नाधमानस्य। निष्कान्। शतम्। अश्वान्। प्रऽयतान्। सद्यः। आदम्। शतम्। कक्षीवान्। असुरस्य। गोनाम्। दिवि। श्रवः। अजरम्। आ। ततान ॥ १.१२६.२
Ashtak » 2
Adhyay » 1
Varga » 11
Mantra » 2
