Mantra with Swara
उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नव॑:। पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वत॑: ॥
उप॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यः॒ऽभुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ । पृ॒णन्त॑म् । च॒ । पपु॑रिम् । च॒ । श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः॑ । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥
Mantra without Swara
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनव:। पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वत: ॥
उप। क्षरन्ति। सिन्धवः। मयःऽभुवः। ईजानम्। च। यक्ष्यमाणम्। च। धेनवः। पृणन्तम्। च। पपुरिम्। च। श्रवस्यवः। घृतस्य। धाराः। उप। यन्ति। विश्वतः ॥ १.१२५.४
Ashtak » 2
Adhyay » 1
Varga » 10
Mantra » 4
