Mantra with Swara
सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति। यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
सु॒ऽगुः । अ॒स॒त् । सु॒ऽहि॒र॒ण्यः । सु॒ऽअश्वः॑ । बृ॒हत् । अ॒स्मै॒ । वयः॑ । इन्द्रः॑ । द॒धा॒ति॒ । यः । त्वा॒ । आ॒ऽयन्त॑म् । वसु॑ना । प्रा॒तः॒ऽइ॒त्वः॒ । मु॒क्षीज॑याऽइव । पदि॑म् । उ॒त्ऽसि॒नाति॑ ॥
Mantra without Swara
सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति। यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
सुऽगुः। असत्। सुऽहिरण्यः। सुऽअश्वः। बृहत्। अस्मै। वयः। इन्द्रः। दधाति। यः। त्वा। आऽयन्तम्। वसुना। प्रातःऽइत्वः। मुक्षीजयाऽइव। पदिम्। उत्ऽसिनाति ॥ १.१२५.२
Ashtak » 2
Adhyay » 1
Varga » 10
Mantra » 2
