Mantra 1
उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत्। दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥
उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइध॒ा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥
Mantra 2
अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑। ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥
अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ । ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥
Mantra 3
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त्। ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥
Mantra 4
उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑। अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥
उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ । अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥
Mantra 5
पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम्। व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥
पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् । वि । ऊँ॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥
Mantra 6
ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम्। अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥
ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् । अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥
Mantra 7
अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम्। जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्स॑: ॥
अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥
Mantra 8
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व। व्यु॒च्छन्ती॑ र॒श्मिभि॒: सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥
खसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒ऽचक्ष्य॑ऽइव । वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥
Mantra 9
आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात्। ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षास॑: ॥
आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसृ॑ॠणाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥
Mantra 10
प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णय॑: ससन्तु। रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥
प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ । रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । जा॒रय॑न्ती ॥
Mantra 11
अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम्। वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् । वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥
Mantra 12
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ। अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ । अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥
Mantra 13
अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः। यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥
अस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ । यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥