Mantra 1
पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः। कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥
पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । एन॑म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ । कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥
Mantra 2
पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री। उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥
पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री । उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥
Mantra 3
यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते। दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥
Mantra 4
गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना। सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥
गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना । सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥
Mantra 5
भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुष॑: सूनृते प्रथ॒मा ज॑रस्व। प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥
भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ । प॒श्चा । सः । द॒ध्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥
Mantra 6
उदी॑रतां सू॒नृता॒ उत्पुर॑न्धी॒रुद॒ग्नय॑: शुशुचा॒नासो॑ अस्थुः। स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥
उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ । स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥
Mantra 7
अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते। प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥
अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ । प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥
Mantra 8
स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑। अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥
स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊँ॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ । अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥
Mantra 9
जा॒न॒त्यह्न॑: प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची। ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥
जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची । ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥
Mantra 10
क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम्। सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥
क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् । स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥
Mantra 11
सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम्। भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥
सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् । भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥
Mantra 12
अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य। परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥
अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य । परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥
Mantra 13
ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि। उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ । उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥