Mantra 1
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वात॑:। यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ । यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥
Mantra 2
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना। तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
Mantra 3
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः। तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवाम् । अव॑ । अ॒हाः॒ । तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥
Mantra 4
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः। स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑: श॒तप॑द्भि॒: षळ॑श्वैः ॥
ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः । स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥
Mantra 5
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे। यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे । यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥
Mantra 6
यम॑श्विना द॒दथु॑: श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति। तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति । तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥
Mantra 7
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुर॑न्धिम्। का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्ण॑: श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् । का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥
Mantra 8
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम्। ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथु॒: सर्व॑गणं स्व॒स्ति ॥
हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॒म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् । ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥
Mantra 9
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मवा॑रम्। क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् । क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥
Mantra 10
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात्। प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् । प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥
Mantra 11
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम्। यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् । यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥
Mantra 12
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम्। द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । तन्य॒तुः । न । वृ॒ष्टिम् । द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥
Mantra 13
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुर॑न्धिः। श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः । श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्र॒िऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
Mantra 14
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम्। उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् । उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥
Mantra 15
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम्। स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥
च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् । स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥
Mantra 16
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार। तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ । तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥
Mantra 17
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती। विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती । विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊँ॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥
Mantra 18
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता। रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता । रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥
Mantra 19
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायु॑: सु॒वीर्यं॑ नासत्या॒ वह॑न्ता। आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता । आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥
Mantra 20
परि॑विष्टं जाहु॒षं वि॒श्वत॑: सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः। वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥
Mantra 21
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑। निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ । निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥
Mantra 22
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः। श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वाः । श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥
Mantra 23
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः। प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः । प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥
Mantra 24
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः। विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथु॒: सोम॑मिव स्रु॒वेण॑ ॥
दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् अ॒प्ऽसु । अ॒न्तरिति॑ । विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव स्रु॒वेण॑ ॥
Mantra 25
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पति॑: स्यां सु॒गव॑: सु॒वीर॑:। उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
प्र । वा॒म् । दंसां॑सि । अ॒स्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ । उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥