Mantra with Swara
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः। इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यंसत् ॥
उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः । इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥
Mantra without Swara
उप नो देवा अवसा गमन्त्वङ्गिरसां सामभिः स्तूयमानाः। इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदिति: शर्म यंसत् ॥
उप। नः। देवाः। अवसा। आ। गमन्तु। अङ्गिरसाम्। सामऽभिः। स्तूयमानाः। इन्द्रः। इन्द्रियैः। मरुतः। मरुत्ऽभिः। आदित्यैः। नः। अदितिः। शर्म। यंसत् ॥ १.१०७.२
Ashtak » 1
Adhyay » 7
Varga » 25
Mantra » 2
