Mantra 1
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑। तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥
अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतु॑: । तस्य॑ । भ्राता॑ । म॒ध्य॒म: । अ॒स्ति॒ । अश्न॑: । तृ॒तीय॑: । भ्राता॑ । घृ॒तऽपृ॑ष्ठ: । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१४.१॥
Mantra 2
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा। त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
स॒प्त । यु॒ञ्ज॒न्ति॒ । रथ॑म् । एक॑ऽचक्रम् । एक॑: । अश्व॑: । व॒ह॒ति॒ । स॒प्तऽना॑मा । त्रि॒ऽनाभि॑ । च॒क्रम् । अ॒जर॑म् । अ॒न॒र्वम् । यत्र॑ । इ॒मा । विश्वा॑ । भुव॑ना । अधि॑ । त॒स्थु: ॥१४.२॥
Mantra 3
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑। स॒प्त स्वसा॑रो अ॒भि सं न॑वन्त॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नामा॑ ॥
इ॒मम् । रथ॑म् । अधि॑ । ये । स॒प्त । त॒स्थु: । स॒प्तऽच॑क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वा॑: । स॒प्त । स्वसा॑र: । अ॒भि । सम् । न॒व॒न्त॒ । यत्र॑ । गवा॑म् । निऽहि॑ता । स॒प्त । नाम॑ ॥१४.३॥
Mantra 4
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति। भूम्या॒ असु॒रसृ॑गा॒त्मा क्व स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
क: । द॒द॒र्श॒ । प्र॒थ॒मम् । जाय॑मानम् । अ॒स्थ॒न्ऽवन्त॑म् । यत् । अ॒न॒स्था। बिभ॑र्ति । भूम्या॑: । असु॑: । असृ॑क् । आ॒त्मा । क᳡ । स्वि॒त् । क: । वि॒द्वांस॑म् । उप॑ । गा॒त् । प्रष्टु॑म् । ए॒तत् ॥१४.४॥
Mantra 5
इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः। शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दाऽपुः॑ ॥
इ॒ह । ब्र॒वी॒तु॒ । य: । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वे: । शी॒र्ष्ण: । क्षी॒रम् । दु॒ह्र॒ते॒ । गाव॑: । अ॒स्य॒ । व॒व्रिम् । वसा॑ना: । उ॒द॒कम् । प॒दा । अ॒पु॒: ॥१४.५॥
Mantra 6
पाकः॑ पृच्छामि॒ मन॒साऽवि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑। व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
पाक॑: । पृ॒च्छा॒मि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ । व॒त्से । ब॒ष्कये॑ । अधि॑ । स॒प्त । तन्तू॑न् । वि । त॒त्नि॒रे॒ । क॒वय॑: । ओत॒वै । ऊं॒ इति॑ ॥१४.६॥
Mantra 7
अचि॑कित्वांश्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्वनो॒ न वि॒द्वान्। वि यस्त॒स्तम्भ॒ षडि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म् ॥
अचि॑कित्वान् । चि॒कि॒तुष॑: । चि॒त् । अत्र॑ । क॒वीन् । पृ॒च्छा॒मि॒ । वि॒द्वन॑: । न । वि॒द्वान् । वि । य: । त॒स्तम्भ॑ । षट् । इ॒मा । रजां॑सि । अ॒जस्य॑ । रू॒पे । किम् । अपि॑ । स्वि॒त् । एक॑म् ॥१४.७॥
Mantra 8
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे। सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥
मा॒ता । पि॒तर॑म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे॑ । मन॑सा । सम् । हि । ज॒ग्मे । सा । बी॒भ॒त्सु: । गर्भ॑ऽरसा। निऽवि॑ध्दा । नम॑स्वन्त: । इत् । उ॒प॒ऽवा॒कम् । ई॒यु॒: ॥१४.८॥
Mantra 9
यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः। अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं त्रि॒षु योज॑नेषु ॥
यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि॑णाया: । अति॑ष्ठत् । गर्भ॑: । वृ॒ज॒नीषु॑ । अ॒न्त: । अमी॑मेत् । व॒त्स: । अनु॑ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒ऽरू॒प्य᳡म् । त्रि॒षु । योजने॑षु ॥१४.९॥
Mantra 10
ति॒स्रो म॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ उ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्त। म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदो॒ वाच॒मवि॑श्वविन्नाम् ॥
ति॒स्र: । मा॒तृ: । त्रीन् । पि॒तृन् । बिभ्र॑त् । एक॑: । ऊ॒र्ध्व: । त॒स्थौ॒ । न । ई॒म् । अव॑ । ग्ल॒प॒य॒न्त॒ । म॒न्त्रय॑न्ते । दि॒व: । अ॒मुष्य॑ । पृ॒ष्ठे । वि॒श्व॒ऽविद॑: । वाच॑म् । अवि॑श्वऽविन्नाम् ॥१४.१०॥
Mantra 11
पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑। तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न च्छि॑द्यते॒ सना॑भिः ॥
पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । यस्मि॑न् । आ॒ऽत॒स्थु: । भुव॑नानि । विश्वा॑ । तस्य॑ । न । अक्ष॑: । त॒प्य॒ते॒ । भूरि॑ऽभार: । स॒नात् । ए॒व । न । छि॒द्य॒ते॒ । सऽना॑भि: ॥१४.११॥
Mantra 12
पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म्। अथे॒मे अ॒न्य उप॑रे विचक्ष॒णे स॒प्तच॑क्रे॒ षड॑र आहु॒रर्पि॑तम् ॥
पञ्च॑ऽपादम् । पि॒तर॑म् । द्वाद॑शऽआकृतिम् । दि॒व: । आ॒हु: । परे॑ । अर्धे॑ । पु॒री॒षिण॑म् । अथ॑ । इ॒मे । अ॒न्ये । उप॑रे । वि॒ऽच॒क्ष॒णे । स॒प्तऽच॑क्रे । षट्ऽअ॑रे । आ॒हु॒: । अर्पि॑तम् ॥१४.१२॥
Mantra 13
द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑। आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
द्वाद॑शऽअरम् । न॒हि । तत् । जरा॑य । वर्व॑र्ति । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ । आ । पु॒त्रा: । अ॒ग्ने॒ । मि॒थु॒नास॑:। अत्र॑ । स॒प्त । श॒तानि॑ । विं॒श॒ति: । च॒ । त॒स्थु॒: ॥१४.१३॥
Mantra 14
सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति। सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ॥
सऽने॑मि । च॒क्रम् । अ॒जर॑म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया॑म् । दश॑ । यु॒क्ता: । व॒ह॒न्ति॒ । सूर्य॑स्य । चक्षु॑: । रज॑सा । ए॒ति॒ । आऽवृ॑तम् । यस्मि॑न् । आ॒ऽत॒स्थु: । भुव॑नानि । विश्वा॑ ॥१४.१४॥
Mantra 15
स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः। क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
स्त्रिय॑: । स॒ती: । तान् । ऊं॒ इति॑ । मे॒ । पुं॒स: । आ॒हु॒: । पश्य॑त् । अ॒क्ष॒ण्ऽवान् । न । वि । चे॒त॒त् । अ॒न्ध: । क॒वि: । य: । पु॒त्र: । स: । ई॒म् । आ । चि॒के॒त॒ । य: । ता । वि॒ऽजा॒नात् । स: । पि॒तु: । पि॒ता । अ॒स॒त् ॥१४.१५॥
Mantra 16
सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑। तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥
सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हू॒: । ए॒क॒ऽजम् । षट् । इत् । य॒मा: । ऋष॑य: । दे॒व॒ऽजा: । इति॑ । तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽश: । स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽश: ॥१४.१६॥
Mantra 17
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्। सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥
अ॒व: । परे॑ण । प॒र: । ए॒ना । अव॑रेण । प॒दा । व॒त्सम् । बिभ्र॑ती । गौ: । उत् । अ॒स्था॒त् । सा । क॒द्रीची॑ । कम् । स्वि॒त् । अर्ध॑म् । परा॑ । अ॒गा॒त् । क्व᳡ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒स्मिन् ॥१४.१७॥
Mantra 18
अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्य॒ वेदा॒वः परे॑ण प॒र ए॒नाव॑रेण। क॑वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम् ॥
अ॒व: । परे॑ण । पि॒तर॑म् । य: । अ॒स्य॒ । वेद॑ । अ॒व: । परे॑ण । प॒र: । ए॒ना । अव॑रेण । क॒वि॒ऽयमा॑न: । क: । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मन॑: । कुत॑: । अधि॑ । प्रऽजा॑तम् ॥१४.१८॥
Mantra 19
ये अ॒र्वाञ्च॒स्ताँ उ॑ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः। इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥
ये । अ॒र्वाञ्च॑: । तान् । ऊं॒ इति॑ । परा॑च: । आ॒हु॒: । ये । परा॑ञ्च: । तान् । ऊं॒ इति॑ । अ॒र्वाच॑: ।आ॒हु॒: । इन्द्र॑: । च॒ । या । च॒क्रथु॑: । सो॒म॒ । तानि॑ । धु॒रा । न । यु॒क्ता । रज॑स: । व॒ह॒न्ति॒ ॥१४.१९॥
Mantra 20
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
द्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒मा॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ । तयो॑: । अ॒न्य: । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्य: । अ॒भि । चा॒क॒शी॒ति॒ ॥१४.२०॥
Mantra 21
यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑। तस्य॒ यदा॒हुः पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
यस्मि॑न् । वृ॒क्षे । म॒धु॒ऽअद॑: । सु॒ऽप॒र्णा: । नि॒ऽवि॒शन्ते॑ । सुव॑ते । च॒ । अधि॑ । विश्वे॑ । तस्य॑ । यत् । आ॒हु॒: । पिप्प॑लम् । स्वा॒दु । अग्रे॑ । तत् । न । उत् । न॒श॒त् । य: । पि॒तर॑म् । न । वेद॑ ॥१४.२१॥
Mantra 22
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति। ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥
यत्र॑ । सु॒ऽप॒र्णा: । अ॒मृत॑स्य । भ॒क्षम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति । ए॒ना । विश्व॑स्य । भुव॑नस्य । गो॒पा: । स: । मा॒ । धीर॑: । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥१४.२२॥