Mantra 1
आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥
आ । न॒य॒ । ए॒तम् । आ । र॒भ॒स्व॒ । सु॒ऽकृता॑म् । लो॒कम् । अपि॑ । ग॒च्छ॒तु॒ । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । म॒हान्ति॑ । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृ॒तीय॑म् ॥५.१॥
Mantra 2
इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन्य॒ज्ञे यज॑मानाय सू॒रिम्। ये नो॑ द्वि॒षन्त्यनु॒ तान्र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ॥
इन्द्रा॑य । भा॒गम् । परि॑ । त्वा॒ । न॒या॒मि॒ । अ॒स्मिन् । य॒ज्ञे । यज॑मानाय । सू॒रिम् । ये । न॒: । द्वि॒षन्ति॑ । अनु॑ । तान् । र॒भ॒स्व॒ । अना॑गस: । यज॑मानस्य । वी॒रा: ॥५.२॥
Mantra 3
प्र प॒दोऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥
प्र । प॒द: । भव॑ । ने॒नि॒ग्धि॒ । दु:ऽच॑रितम् । यत् । च॒चार॑ । शु॒ध्दै: । श॒फै: । आ । क्र॒म॒ता॒म् । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । वि॒ऽपश्य॑न् । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृतीय॑म् ॥५.३॥
Mantra 4
अनु॑छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्वसिना॒ माभि मं॑स्थाः। माभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम् ॥
अनु॑ । च्छ्य॒ । श्या॒मेन॑ । त्वच॑म् । ए॒ताम् । वि॒ऽश॒स्त॒: । य॒था॒ऽप॒रु । अ॒सिना॑ । मा । अ॒भि । मं॒स्था॒: । मा । अ॒भि । द्रु॒ह॒: । प॒रु॒ऽश: । क॒ल्प॒य॒ । ए॒न॒म् । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒ । ए॒न॒म् ॥५.४॥
Mantra 5
ऋ॒चा कु॒म्भीमध्य॒ग्नौ श्र॑या॒म्या सि॑ञ्चोद॒कमव॑ धेह्येनम्। प॒र्याध॑त्ता॒ग्निना॑ शमितारः शृ॒तो ग॑च्छतु सु॒कृतां॒ यत्र॑ लो॒कः ॥
ऋ॒चा । कु॒म्भीम् । अधि॑ । अ॒ग्नौ । श्र॒या॒मि॒ । आ । सि॒ञ्च॒ । उ॒द॒कम् । अव॑ । धे॒हि॒ । ए॒न॒म् । प॒रि॒ऽआध॑त्त । अ॒ग्निना॑ । श॒मि॒ता॒र॒: । शृ॒त: । ग॒च्छ॒तु॒ । सु॒ऽकृता॑म् । यत्र॑ । लो॒क: ॥५.५॥
Mantra 6
उत्क्रा॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्। अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ॥
उत् । क्रा॒म॒ । अत॑: । परि॑ । च॒ । इत् । अत॑प्त: । त॒प्तात् । च॒रो: । अधि॑ । नाक॑म् । तृ॒तीय॑म् । अ॒ग्ने: । अ॒ग्नि: । अधि॑ । सम् । ब॒भू॒वि॒थ॒ । ज्योति॑ष्मन्तम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् ॥५.६॥
Mantra 7
अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥
अ॒ज: । अ॒ग्नि: । अ॒जम् । ऊं॒ इति॑ । ज्योति॑: । आ॒हु॒: । अ॒जम् । जीव॑ता । ब्र॒ह्मणे॑ । देय॑म् । आ॒हु॒: । अ॒ज: । तमां॑सि । अप॑ । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.७॥
Mantra 8
पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि। ई॑जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥
पञ्च॑ऽओदन: । प॒ञ्च॒ऽधा । वि । क्र॒म॒ता॒म् । आ॒ऽक्रं॒स्यमा॑न: । त्रीणि॑ । ज्योतीं॑षि । ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । प्र । इ॒हि॒ । मध्य॑म । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥५.८॥
Mantra 9
अजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तोऽति॑ दु॒र्गाण्ये॑षः। पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ॥
अज॑ । आ । रो॒ह॒ । सु॒ऽकृता॑म् । यत्र॑ । लो॒क: । श॒र॒भ: । न । च॒त्त: । अति॑ । दु॒:ऽगानि॑ । ए॒ष॒: । पञ्च॑ऽओदन: । ब्र॒ह्मणे॑ । दी॒यमा॑न: । स: । दा॒तार॑म् । तृप्त्या॑ । त॒र्प॒य॒ति॒ ॥५.९॥
Mantra 10
अ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति। पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ॥
अ॒ज: । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । त्रि॒ऽपृ॒ष्ठे । नाक॑स्य । पृ॒ष्ठे । द॒दि॒ऽवांस॑म् । द॒धा॒ति॒ । पञ्च॑ऽओदन: । ब्र॒ह्मणे॑ । दी॒यमा॑न: । वि॒श्वऽरू॑पा । धे॒नु: । का॒म॒ऽदुघा॑ । अ॒सि॒ । एका॑ ॥५.१०॥
Mantra 11
ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥
ए॒तत् । व॒: । ज्योति॑: । पि॒त॒र॒: । तृ॒तीय॑म् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । अ॒ज: । तमां॑सि । अ॑प । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.११॥
Mantra 12
ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। स व्याप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥
ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । स: । विऽआ॒प्तिम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् । शि॒व: । अ॒स्मभ्य॑म् । प्रति॑ऽगृहीत:। अ॒स्तु॒ ॥५.१२॥
Mantra 13
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒द्विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्। इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद्दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ॥
अ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । विप्र॑: । विप्र॑स्य । सह॑स: । वि॒प॒:ऽचित् । इ॒ष्टम् । पू॒र्तम् । अ॒भिऽपू॑र्तम् । वष॑ट्ऽकृतम् । तत् । दे॒वा: । ऋ॒तु॒ऽश: । क॒ल्प॒य॒न्तु॒ ॥५.१३॥
Mantra 14
अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्। तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥
अ॒मा॒ऽउ॒तम् । वास॑: । द॒द्या॒त् । हिर॑ण्यम् । अपि॑ । दक्षि॑णाम् । तथा॑ । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: ॥५.१४॥
Mantra 15
ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑। स्त॑भान पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठेऽधि॑ स॒प्तर॑श्मौ ॥
ए॒ता: । त्वा॒ । अ॒ज॒ । उप॑ । य॒न्तु॒ । धारा॑: । सो॒म्या: । दे॒वी: । घृ॒तऽपृ॑ष्ठ: । म॒धु॒ऽश्चुत॑: । स्त॒भा॒न् । पृ॒थि॒वीम् । उ॒त । द्याम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । स॒प्तऽर॑श्मौ ॥५.१५॥
Mantra 16
अ॒जो॒स्यज॑ स्व॒र्गोसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्। तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ॥
अ॒ज: । अ॒सि॒ । अज॑ । स्व॒:ऽग: । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रस: । प्र । अ॒जा॒न॒न् । तम् । लो॒कम् । पुण्य॑म् । प्र । ज्ञे॒ष॒म् ॥५.१६॥
Mantra 17
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गन्त॑वे ॥
येन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥
Mantra 18
अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः। तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ॥
अ॒ज: । प॒क्व: । स्व॒:ऽगे । लो॒के । द॒धा॒ति॒ । पञ्च॑ऽओदन: । नि:ऽऋ॑तिम् । बाध॑मान: । तेन॑ । लो॒कान् । सूर्य॑ऽवत: । ज॒ये॒म॒ ॥५.१८॥
Mantra 19
यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑। सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ॥
यम् । ब्रा॒ह्म॒णे । नि॒ऽद॒धे । यम् । च॒ । वि॒क्षु । या: । वि॒ऽप्रुष॑: । ओ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अ॒ग्ने॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । जा॒नी॒तात् । न॒: । स॒म्ऽगम॑ने । प॒थी॒नाम् ॥५.१९॥
Mantra 20
अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥
अ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तरि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥
Mantra 21
स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑। ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥
स॒त्यम् । च॒ । ऋ॒तम् । च॒ । चक्षु॑षी॒ इति॑ । विश्व॑म् । स॒त्यम् । श्र॒ध्दा । प्रा॒ण: । वि॒ऽराट् । शिर॑: । ए॒ष: । वै । अप॑रिऽमित: । य॒ज्ञ: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.२१॥
Mantra 22
अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
अप॑रिऽमितम् । ए॒व । य॒ज्ञम् । आ॒प्नोति॑ । अप॑रिऽमितम् । लो॒कम् । अव॑ । रु॒न्ध्दे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२२॥
Mantra 23
नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्। सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत् ॥
न । अ॒स्य॒ । अस्थी॑नि । भि॒न्द्या॒त् । न । म॒ज्ज्ञ: । नि: । ध॒ये॒त् । सर्व॑म् । ए॒न॒म् । स॒म्ऽआ॒दाय॑ । इ॒दम्ऽइ॑दम् । प्र । वे॒श॒ये॒त् ॥५.२३॥
Mantra 24
इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति। इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
इ॒दम्ऽइ॑दम् । ए॒व । अ॒स्य॒ । रू॒पम् । भ॒व॒ति॒ । तेन॑ । ए॒न॒म् । सम् । ग॒म॒य॒ति॒ । इष॑म् । मह॑: । ऊर्ज॑म् । अ॒स्मै॒ । दु॒हे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२४॥
Mantra 25
पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
पञ्च॑ । रु॒क्मा । पञ्च॑ । नवा॑नि । वस्रा॑ । पञ्च॑ । अ॒स्मै॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्ति॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२५॥
Mantra 26
पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे भवन्ति। स्व॒र्गं लो॒कम॑श्नुते॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
पञ्च॑ । रु॒क्मा । ज्योति॑: । अ॒स्मै॒ । भ॒व॒न्ति॒ । वर्म॑ । वासां॑सि । त॒न्वे᳡ । भ॒व॒न्ति॒ । स्व॒:ऽगम् । लो॒कम् । अ॒श्नु॒ते॒ । य: । अ॒जम् । पञ्च॑ओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२६॥
Mantra 27
या पूर्वं॒ पतिं॑ वि॒त्त्वाऽथा॒न्यं वि॒न्दतेऽप॑रम्। पञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ॥
या । पूर्व॑म् । पति॑म् । वि॒त्त्वा । अथ॑ । अ॒न्यम् । वि॒न्दते॑ । अप॑रम् । पञ्च॑ऽओदनम् । च॒ । तौ । अ॒जम् । ददा॑त: । न । वि । यो॒ष॒त॒: ॥५.२७॥
Mantra 28
स॑मा॒नलो॑को भवति पुन॒र्भुवाप॑रः॒ पतिः॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स॒मा॒नऽलो॑क: । भ॒व॒ति॒ । पु॒न॒:ऽभुवा॑ । अप॑र: । पति॑: । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२८॥
Mantra 29
अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्। वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ॥
अ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नुम् । अ॒न॒ड्वाह॑म् । उ॒प॒ऽबर्ह॑णम् । वास॑: । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् । उ॒त्ऽत॒माम् ॥५.२९॥
Mantra 30
आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥
आ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥
Mantra 31
यो वै नैदा॑घं॒ नाम॒र्तुं वेद॑। ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । नैदा॑घम्। नाम॑ । ऋ॒तुम् । वेद॑ । ए॒ष: । वै । नैदा॑घ: । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: । नि: । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । द॒ह॒ति॒ । भव॑ति । आ॒त्मना॑ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.३१॥
Mantra 32
यो वै कु॒र्वन्तं॒ नाम॒र्तुं वेद॑। कु॑र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । कु॒र्वन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । कु॒र्व॒तीम्ऽकु॑र्वतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । कु॒र्वन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३२॥
Mantra 33
यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑। सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । स॒म्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । सं॒य॒तीम्ऽसं॑यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । स॒म्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३३॥
Mantra 34
यो वै पि॒न्वन्तं॒ नाम॒र्तुं वेद॑। पि॑न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै पि॒न्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । पि॒न्वन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । पि॒न्व॒तीम्ऽपि॑न्वतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । पि॒न्वन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३४॥
Mantra 35
यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥
Mantra 36
यो वा अ॑भि॒भुवं॒ नाम॒र्तुं वेद॑। अ॑भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा अ॑भि॒भूर्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
य: । वै । अ॒भि॒ऽभुव॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । अ॒भि॒भव॑न्तीम्ऽअभिभवन्तीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । अ॒भि॒ऽभू: । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: । नि: । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । द॒ह॒ति॒ । भव॑ति । आ॒त्मना॑ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.३६॥
Mantra 37
अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ॥
अ॒जम् । च॒ । पच॑त । पञ्च॑ । च॒ । ओ॒द॒नान् । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । सऽअ॑न्तर्देशा: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । ते॒ । ए॒तम् ॥५.३७॥
Mantra 38
तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥
ता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥