Mantra 1
सपत्न॒हन॑मृष॒भं घृ॒तेन॒ कामं॑ शिक्षामि ह॒विषाज्ये॑न। नी॒चैः स॒पत्ना॒न्मम॑ पादय॒ त्वम॒भिष्टु॑तो मह॒ता वी॒र्येण ॥
स॒प॒त्न॒ऽहन॑म् । ऋ॒ष॒भम् । घृ॒तेन॑ । काम॑म् । शि॒क्षा॒मि॒ । ह॒विषा॑ । आज्ये॑न । नी॒चै: । स॒ऽपत्ना॑न् । मम॑ । पा॒द॒य॒ । त्वम् । अ॒भिऽस्तु॑त: । म॒ह॒ता । वी॒र्ये᳡ण ॥२.१॥
Mantra 2
यन्मे॒ मन॑सो॒ न प्रि॒यं न चक्षु॑षो॒ यन्मे॒ बभ॑स्ति॒ नाभि॒नन्द॑ति। तद्दुः॒ष्वप्न्यं॒ प्रति॑ मुञ्चामि स॒पत्ने॒ कामं॑ स्तु॒त्वोद॒हं भि॑देयम् ॥
यत् । मे॒ । मन॑स: । न । प्रि॒यम् । न । चक्षु॑ष: । यत् । मे॒ । बभ॑स्ति । न । अ॒भि॒ऽनन्द॑ति । तत् । दु॒:ऽस्वप्न्य॑म् । प्रति॑ । मु॒ञ्चा॒मि॒ । स॒ऽपत्ने॑ । काम॑म् । स्तु॒त्वा । उत् । अ॒हम् । भि॒दे॒य॒म् ॥२.२॥
Mantra 3
दुः॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्। उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥
दु॒:ऽस्वप्न्य॑म् । का॒म॒ । दु॒:ऽइ॒तम् । च॒ । का॒म॒ । अ॒प्र॒जस्ता॑म् । अ॒स्व॒गता॑म् । अव॑र्तिम् । उ॒ग्र: । ईशा॑न: । प्रति॑ । मु॒ञ्च॒ । तस्मि॑न् । य: । अ॒स्मभ्य॑म् । अं॒हू॒र॒णा । चिकि॑त्सात् ॥२.३॥
Mantra 4
नु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑। तेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ॥
नु॒दस्व॑ । का॒म॒ । प्र । नु॒द॒स्व॒ । का॒म॒ । अव॑र्तिम् । य॒न्तु॒ । मम॑ । ये । स॒ऽपत्ना॑: । तेषा॑म् । नु॒त्ताना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । नि: । द॒ह॒ । त्वम् ॥२.४॥
Mantra 5
सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥
सा । ते॒ । का॒म॒ । दु॒हि॒ता । धे॒नु: । उ॒च्य॒ते॒ । याम् । आ॒हु: । वाच॑म् । क॒वय॑: । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.५॥
Mantra 6
काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥
काम॑स्य । इन्द्र॑स्य । वरु॑णस्य । राज्ञ॑: । विष्णो॑: । बले॑न । स॒वि॒तु: । स॒वेन॑ । अ॒ग्ने: । हो॒त्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑म् । उ॒द॒केषु॑ । धीर॑: ॥२.६॥
Mantra 7
अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व। विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥
अधि॑ऽअक्ष: । वा॒जी । मम॑ । काम॑: । उ॒ग्र: । कृ॒णोतु॑ । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व । विश्वे॑ । दे॒वा: । मम॑ । ना॒थम् । भ॒व॒न्तु॒ । सर्वे॑ ।दे॒वा: । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥२.७॥
Mantra 8
इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥
इ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जु॒षा॒णा: । काम॑ऽज्येष्ठा: । इ॒ह । मा॒द॒य॒ध्व॒म् । कृ॒ण्वन्त॑: । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व ॥२.८॥
Mantra 9
इ॑न्द्रा॒ग्नी का॑म स॒रथं॒ हि भू॒त्वा नी॒चैः स॒पत्ना॒न्मम॑ पादयाथः। तेषां॑ प॒न्नाना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑न्यनु॒निर्द॑ह॒ त्वम् ॥
इ॒न्द्रा॒ग्नी इति॑ । का॒म॒ । स॒ऽरथ॑म् । हि । भू॒त्वा । नी॒चै: । स॒ऽपत्ना॑न् । मम॑ । पा॒द॒या॒थ॒: । तेषा॑म् । प॒न्नाना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । अ॒नु॒ऽनर्द॑ह । त्वम् ॥२.९॥
Mantra 10
ज॒हि त्वं का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्। निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ॥
ज॒हि । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । अ॒न्धा । तमां॑सि । अव॑ । पा॒द॒य॒ । ए॒ना॒न् । नि:ऽइ॑न्द्रिया: । अ॒र॒सा: । स॒न्तु॒ । सर्वे॑ । मा । ते । जी॒वि॒षु॒: । क॒त॒मत् । च॒न । अह॑: ॥२.१०॥
Mantra 11
अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥
अव॑धीत् । काम॑: । मम॑ । ये । स॒ऽपत्ना॑: । उ॒रुम् । लो॒कम् । अ॒क॒र॒त् । मह्य॑म् । ए॒ध॒तुम् । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑: । चत॑स्र: । मह्य॑म् । षट् । उ॒र्वी: । घृ॒तम् । आ । व॒ह॒न्तु॒ ॥२.११॥
Mantra 12
तेध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्। न साय॑कप्रणुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ॥
ते । अ॒ध॒राञ्च॑: । प्र । प्ल॒व॒न्ता॒म् । छि॒न्ना । नौ:ऽइ॑व । बन्ध॑नात् । न । साय॑कऽप्रनुत्तानाम् । पुन॑: । अ॒स्ति॒ । नि॒ऽवर्त॑नम् ॥२.१२॥
Mantra 13
अ॒ग्निर्यव॒ इन्द्रो॒ यवः॒ सोमो॒ यवः॑। य॑व॒यावा॑नो दे॒वा य॑वयन्त्वेनम् ॥
अ॒ग्नि: । यव॑: । इन्द्र॑: । यव॑: । सोम॑: । यव॑: । य॒व॒ऽयावा॑न: । दे॒वा: । य॒व॒य॒न्तु॒ । ए॒न॒म् ॥२.१३॥
Mantra 14
अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥
अस॑र्वऽवीर: । च॒र॒तु॒ । प्रऽनु॑त्त: । द्वेष्य॑: । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡: । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑: ।उ॒ग्र: । व॒: । दे॒व: । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥
Mantra 15
च्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद्बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्। उ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न्नुदतां मे॒ सह॑स्वान् ॥
च्यु॒ता । च॒ । इ॒यम् । बृ॒ह॒ती ।अच्यु॑ता । च॒ । वि॒ऽद्युत् । बि॒भ॒र्ति॒ । स्त॒न॒यि॒त्नून् । च॒ । सर्वा॑न् । उ॒त्ऽयन् । आ॒दि॒त्य: । द्रवि॑णेन । तेज॑सा । नी॒चै: । स॒ऽपत्ना॑न् । नु॒द॒ता॒म् । मे॒ । सह॑स्वान् ॥२.१५॥
Mantra 16
यत्ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यं कृ॒तम्। तेन॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥
यत् । ते॒ । का॒म॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । उ॒त्ऽभु । ब्रह्म॑ । वर्म॑ । विऽत॑तम् । अ॒न॒ति॒ऽव्या॒ध्य᳡म् । कृ॒तम् । तेन॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.१६॥
Mantra 17
येन॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑। तेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ॥
येन॑ । दे॒वा: । असु॑रान् । प्र॒ऽअनु॑दन्त ।येन॑ । इन्द्र॑: । दस्यू॑न् । अ॒ध॒मम् । तम॑: । नि॒नाय॑ । तेन॑ । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । तान् । अ॒स्मात् । लो॒कात् । प्र । नु॒द॒स्व॒ । दू॒रम् ॥२.१७॥
Mantra 18
यथा॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ यथेन्द्रो॒ दस्यू॑नध॒मं तमो॑ बबा॒धे। तथा॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ॥
यथा॑ । दे॒वा: । असु॑रान् । प्र॒ऽअनु॑दन्त । यथा॑ । इन्द्र॑: । दस्यू॑न् । अ॒ध॒मम् । तम॑: । ब॒बा॒धे । तथा॑ । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । तान् । अ॒स्मात् । लो॒कात् । प्र । नु॒द॒स्व॒ । दू॒रम् ॥२.१८॥
Mantra 19
कामो॑ जज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो॒ न मर्त्याः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
काम॑: । ज॒ज्ञे॒ । प्र॒थ॒म: । न । ए॒न॒म् । दे॒वा: । आ॒पु॒: । पि॒तर॑: । न । मर्त्या॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.१९॥
Mantra 20
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑: । सि॒स्य॒दु: । याव॑त् । अ॒ग्नि: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ । २.२०॥
Mantra 21
याव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
याव॑ती: । दिश॑: । प्र॒ऽदिश॑: । विषू॑ची: । याव॑ती: । आशा॑: । अ॒भि॒ऽचक्ष॑णा: । दि॒व: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२१॥
Mantra 22
याव॑ती॒र्भृङ्गा॑ ज॒त्वः कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्यो बभू॒वुः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
याव॑ती: । भृङ्गा॑: । ज॒त्व᳡: । कु॒रूर॑व: । याव॑ती: । वघा॑: । वृ॒क्ष॒ऽस॒र्प्य᳡: । ब॒भू॒वु: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२२॥
Mantra 23
ज्याया॑न्निमि॒षतोसि॒ तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
ज्याया॑न् । नि॒ऽमि॒ष॒त: । अ॒सि॒ । तिष्ठ॑त: । ज्याया॑न् । स॒मु॒द्रात् । अ॒सि॒ । का॒म॒ । म॒न्यो॒ इति॑ । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२३॥
Mantra 24
न वै वात॑श्च॒न काम॑माप्नोति॒ नाग्निः सूर्यो॒ नोत च॒न्द्रमाः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
न । वै । वात॑: । च॒न । काम॑म् । आ॒प्नो॒ति॒ । न । अ॒ग्नि: । सूर्य॑: । न । उ॒त । च॒न्द्रमा॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२४॥
Mantra 25
यास्ते॑ शि॒वास्त॒न्वः काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णी॒षे। ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥
या: । ते॒ । शि॒वा: । त॒न्व᳡: । का॒म॒ । भ॒द्रा: । याभि॑: । स॒त्यम् । भव॑ति । यत् । वृ॒णी॒षे । ताभि॑: । त्वम् । अ॒स्मान् । अ॒भि॒ऽसंवि॑शस्व । अ॒न्यत्र॑ । पा॒पी: । अप॑ । वे॒श॒य॒ । धिय॑: । ॥२.२५॥