Mantra 1
दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे। तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥
दि॒व: । पृ॒थि॒व्या: । अ॒न्तरि॑क्षात् । स॒मु॒द्रात् । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । ताम् । चा॒यि॒त्वा । अ॒मृत॑म् । वसा॑नाम् । हृ॒त्ऽभि: । प्र॒ऽजा: । प्रति॑ । न॒न्द॒न्ति॒ । सर्वा॑: ॥१.१॥
Mantra 2
म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
म॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥
Mantra 3
पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
पश्य॑न्ति । अ॒स्या॒: । च॒रि॒तम् । पृ॒थि॒व्याम् । पृथ॑क् । नर॑: । ब॒हु॒ऽधा । मीमां॑समाना: । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.३॥
Mantra 4
मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑। हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ॥
मा॒ता । आ॒दित्याना॑म् । दु॒हि॒ता । वसू॑नाम् । प्रा॒ण: । प्र॒ऽजाना॑म् । अ॒मृत॑स्य । नाभि॑: । हिर॑ण्यऽवर्णा । म॒धु॒ऽक॒शा। घृ॒ताची॑ । म॒हान् । भर्ग॑: । च॒र॒ति॒ । मर्त्ये॑षु ॥१.४॥
Mantra 5
मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः। तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥
मधो॑: । कशा॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वा: । तस्या॑: । गर्भ॑: । अ॒भ॒व॒त् । वि॒श्वऽरू॑प: । तम् । जा॒तम् । तरु॑णम् । पि॒प॒र्ति॒ । मा॒ता । स: । जा॒त: । विश्वा॑ । भुव॑ना । वि । च॒ष्टे॒ ॥१.५॥
Mantra 6
कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः। ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ॥
क: । तम् । प्र । वे॒द॒ । क: । ऊं॒ इति॑ तम् । चि॒के॒त॒ । य: । अ॒स्या॒: । हृ॒द: । क॒लश॑: । सो॒म॒ऽधान॑: । अक्षि॑त: । ब्र॒ह्मा । सु॒ऽमे॒धा: । स: । अ॒स्मि॒न् । म॒दे॒त॒ ॥१.६॥
Mantra 7
स तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ। ऊर्जं॑ दुहाते॒ अन॑पस्पुरन्तौ ॥
स: । तौ । प्र । वे॒द॒ । स: । ऊं॒ इति॑ । तौ । चि॒के॒त॒ । यौ । अ॒स्या॒: । स्तनौ॑ । स॒हस्र॑ऽधारौ । अक्षि॑तौ । ऊर्ज॑म् । दु॒हा॒ते॒ इति॑ । अन॑पऽस्फुरन्तौ ॥१.७॥
Mantra 8
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्। त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
हि॒ङ्ऽकरि॑क्रती । बृ॒ह॒ती । व॒य॒:ऽधा: । उ॒च्चै:ऽघो॑षा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । त्रीन् । ध॒र्मान् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१.८॥
Mantra 9
यामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑। ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ॥
याम् । आऽपी॑नाम् । उ॒प॒ऽसीद॑न्ति । आप॑: । शा॒क्व॒रा: । कृ॒ष॒भा: । ये । स्व॒ऽराज॑: । ते । व॒र्ष॒न्ति॒ । ते । व॒र्ष॒य॒न्ति॒ । त॒त्ऽविदे॑ । काम॑म् । ऊर्ज॑म् । आप॑: ॥१.९॥
Mantra 10
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
स्त॒न॒यि॒त्नु: । ते॒ । वाक् । प्र॒जा॒ऽप॒ते॒ । वृषा॑ । शुष्म॑म् । क्षि॒प॒सि॒ । भूम्या॑म् । अधि॑ । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा । हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.१०॥
Mantra 11
यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः। ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
यथा॑ । सोम॑: । प्रा॒त॒:ऽस॒व॒ने । अश्विनो॑: । भव॑ति । प्रि॒य: । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.११॥
Mantra 12
यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः। ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
यथा॑ । सोम॑: । द्वि॒तीये॑ । सव॑ने । इ॒न्द्रा॒ग्न्यो: । भव॑ति । प्रि॒य: । ए॒व । मे॒ । इ॒न्द्रा॒ग्नी॒ इति॑ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१२॥
Mantra 13
यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः। ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
यथा॑ । सोम॑: । तृतीये॑ । सव॑ने । ऋ॒भू॒णाम् । भव॑ति । प्रि॒य: । ए॒व । मे॒ । ऋ॒भ॒व॒: । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१३॥
Mantra 14
मधु॑ जनिषीय॒ मधु॑ वंशिषीय। पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
मधु॑ । ज॒नि॒षी॒य॒ । मधु॑ । वं॒शि॒षी॒य॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । अ॒ग॒म॒म् । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥१.१४॥
Mantra 15
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा। वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्यु: । मे॒ । अ॒स्य । दे॒वा: । इन्द्र॑: । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभि: ॥१.१५॥
Mantra 16
यथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
यथा॑ । मधु॑ । म॒धु॒ऽकृत॑: । स॒म्ऽभर॑न्ति । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१६॥
Mantra 17
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
यथा॑ । मक्षा॑: । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्ति॑ । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । तेज॑: । बल॑म् । ओज॑: । च॒ । ध्रि॒य॒ता॒म् ॥१.१७॥
Mantra 18
यद्गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑। सुरा॑यां सि॒च्यमा॑नायां॒ यत्तत्र॒ मधु॒ तन्मयि॑ ॥
यत् । गि॒रिषु॑ । पर्व॑तेषु । गोषु॑ । अश्वे॑षु । यत् । मधु॑ । सुरा॑याम् । सि॒च्यमा॑नायाम् । यत् । तत्र॑ । मधु॑ । तत् । मयि॑ ॥१.१८॥
Mantra 19
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
अश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । वर्च॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥१.१९॥
Mantra 20
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि। तां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ॥
स्त॒नि॒यि॒त्नु: । ते॒ । वाक् । प्र॒जा॒ऽप॒ते॒ । वृषा॑ । शुष्म॑म् । क्षि॒प॒सि॒ । भूम्या॑म् । दि॒वि । ताम् । प॒शव॑: । उप॑ । जी॒व॒न्ति॒ । सर्वे॑ । तेनो॒ इति॑ । सा । इष॑म् । ऊर्ज॑म् । पि॒प॒र्ति॒ ॥१.२०॥
Mantra 21
पृ॑थि॒वी द॒ण्डो॒न्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत्प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ॥
पृ॒थि॒वी । द॒ण्ड: । अ॒न्तरि॑क्षम् । गर्भ॑: । द्यौ: । कशा॑ । वि॒ऽद्युत् । प्र॒ऽक॒श: । हि॒र॒ण्यय॑: । बि॒न्दु: ॥१.२१॥।
Mantra 22
यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥
य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।
Mantra 23
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं भवति। मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
मधु॑ऽमान् । भ॒व॒ति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहा॒र्य᳡म् । भ॒व॒ति॒ । मधु॑ऽमत: । लो॒कान् । ज॒य॒ति॒ । य: । ए॒वम् । वेद॑ ॥१.२३॥
Mantra 24
यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति। तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑। अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥
यत् । वी॒ध्रे । स्त॒नय॑ति । प्र॒जाऽप॑ति: । ए॒व । तत् । प्र॒ऽजाभ्य॑: । प्रा॒दु: । भ॒व॒ति॒ । तस्मा॑त् । प्रा॒ची॒न॒ऽउ॒प॒वी॒त: । ति॒ष्ठे॒ । प्रजा॑ऽपते । अनु॑ । मा॒ । बु॒ध्य॒स्य॒ । इति॑ । अनु॑ । ए॒न॒म् । प्र॒ऽजा: । अनु॑ । प्र॒जाऽप॑ति: । बु॒ध्य॒ते॒ । य: । ए॒वम् । वेद॑ ॥१.२४॥