Mantra 1
इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः। यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥
इन्द्र॑: । म॒न्थ॒तु॒ । मन्थि॑ता । श॒क्र: । शूर॑: । पु॒र॒म्ऽद॒र: । यथा॑ । हना॑म । सेना॑: । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥८.१॥
Mantra 2
पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्। धू॒मम॒ग्निं प॑रा॒दृश्या॒ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ॥
पू॒ति॒ऽर॒ज्जु: । उ॒प॒ऽध्मानी॑ । पूति॑म् । सेना॑म् । कृ॒णो॒तु॒ । अ॒मूम् । धू॒मम् । अ॒ग्निम् । प॒रा॒ऽदृश्य॑ । अ॒मित्रा॑: । हृ॒त्ऽसु । आ । द॒ध॒ता॒म् । भ॒यम् ॥८.२॥
Mantra 3
अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून्ख॑दिराजि॒रम्। ता॒जद्भङ्ग॑ इव भज्यन्तां॒ हन्त्वे॑ना॒न्वध॑को व॒धैः ॥
अ॒मून् । अ॒श्व॒त्थ॒ । नि: । शृ॒णी॒हि॒ । खाद॑ । अ॒मून् । ख॒दि॒र॒ । अ॒जि॒रम् । ता॒जद्भङ्ग॑:ऽइव । भ॒ज्य॒न्ता॒म् । हन्तु॑ । ए॒ना॒न्। वध॑क: । व॒धै: ॥८.३॥
Mantra 4
प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः। क्षि॒प्रं श॒र इ॑व भज्यन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥
प॒रु॒षान् । अ॒मून् । प॒रु॒ष॒ऽआ॒ह्व: । कृ॒णो॒तु॒ । हन्तु॑ । ए॒ना॒न् । वध॑क: । व॒धै: । क्षि॒प्रम् । श॒र:ऽइ॑व । भ॒ज्य॒न्ता॒म् । बृ॒ह॒त्ऽजा॒लेन॑ । सम्ऽदि॑ता: ॥ ८.४॥
Mantra 5
अ॒न्तरि॑क्षं॒ जाल॑मासीज्जालद॒ण्डा दिशो॑ म॒हीः। तेना॑भि॒धाय॒ दस्यू॑नां श॒क्रः सेना॒मपा॑वपत् ॥
अ॒न्तरि॑क्षम् । जाल॑म् । आ॒सी॒त् । जा॒ल॒ऽद॒ण्डा: । दिश॑: । म॒ही: । तेन॑ । अ॒भि॒ऽधाय॑ । दस्यू॑नाम् । श॒क्र: । सेना॑म् । अप॑ । अ॒व॒प॒त् ॥८.५॥
Mantra 6
बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः। तेन॒ शत्रू॑न॒भि सर्वा॒न्न्युब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म् ॥
बृ॒हत् । हि । जाल॑म् । बृ॒ह॒त: । श॒क्रस्य॑ । वा॒जिनी॑ऽवत: । तेन॑ । शत्रू॑न् । अ॒भि । सर्वा॑न् । नि । उ॒ब्ज॒ । यथा॒ । न । मुच्या॑तै । क॒त॒म: । च॒न । ए॒षा॒म् ॥८.६॥
Mantra 7
बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य। तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥
बृ॒हत् । ते॒ । जाल॑म् । बृ॒ह॒त: । इ॒न्द्र॒ । शू॒र॒ । स॒ह॒स्र॒ऽअ॒र्घस्य॑ । श॒तऽवी॑र्यस्य । तेन॑ । श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । ज॒घान॑ । श॒क्र: । दस्यू॑नाम् । अ॒भि॒ऽधाय॑ । सेन॑या ॥८.७॥
Mantra 8
अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्। तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ॥
अ॒यम् । लो॒क: । जाल॑म् । आ॒सी॒त् । श॒क्रस्य॑ । म॒ह॒त: । म॒हान् । तेन॑ । अ॒हम् । इ॒न्द्र॒ऽजा॒लेन॑ । अ॒मून् । तम॑सा । अ॒भि । द॒धा॒मि॒ । सर्वा॑न् ॥८.८॥
Mantra 9
से॒दिरु॒ग्रा व्यृद्धि॒रार्ति॑श्चानपवाच॒ना। श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न् ॥
से॒दि: । उ॒ग्रा । विऽऋ॑ध्दि: । आर्ति॑: । च॒ । अ॒न॒प॒ऽवा॒च॒ना । श्रम॑: । त॒न्द्री: । च॒ । मोह॑: । च॒ । तै: । अ॒मून् । अ॒भि । द॒धा॒मि॒ । सर्वा॑न् ॥८.९॥
Mantra 10
मृ॒त्यवे॒ऽमून्प्र य॑च्छामि मृत्युपा॒शैर॒मी सि॒ताः। मृ॒त्योर्ये अ॑घ॒ला दू॒तास्तेभ्य॑ एना॒न्प्रति॑ नयामि ब॒द्ध्वा ॥
मृ॒त्यवे॑ । अ॒मून् । प्र । य॒च्छा॒मि॒ । मृ॒त्यु॒ऽपा॒शै: । अ॒मी इति॑ । सि॒ता: । मृ॒त्यो: । ये । अ॒घ॒ला: । दू॒ता: । तेभ्य॑: । ए॒ना॒न् । प्रति॑ । न॒या॒मि॒ । ब॒द्ध्वा । ८.१०॥
Mantra 11
नय॑ता॒मून्मृ॑त्युदूता॒ यम॑दूता॒ अपो॑म्भत। प॑रःसह॒स्रा ह॑न्यन्तां तृ॒णेढ्वे॑नान्म॒त्यं भ॒वस्य॑ ॥
नय॑त । अ॒मून् । मृ॒त्यु॒ऽदू॒ता॒: । यम॑ऽदूता: । अप॑ । उ॒म्भ॒त॒ । प॒र॒:ऽस॒ह॒स्रा: । ह॒न्य॒न्ता॒म् । तृ॒णेढु॑ । ए॒ना॒न् । म॒त्य᳡म् । भ॒वस्य॑ ॥८.११॥
Mantra 12
सा॒ध्या एकं॑ जालद॒ण्डमु॒द्यत्य॑ य॒न्त्योज॑सा। रु॒द्रा एकं॒ वस॑व॒ एक॑मादि॒त्यैरेक॒ उद्य॑तः ॥
सा॒ध्या: । एक॑म् । जा॒ल॒ऽद॒ण्डम् । उ॒त्ऽयत्य॑ । य॒न्ति॒ । ओज॑सा । रु॒द्रा: । एक॑म् । वस॑व: । एक॑म् । आ॒दि॒त्यै: । एक॑: । उत्ऽय॑त: ॥८.१२॥
Mantra 13
विश्वे॑ दे॒वा उ॒परि॑ष्टादु॒ब्जन्तो॑ य॒न्त्वोज॑सा। मध्ये॑न॒ घ्नन्तो॑ यन्तु॒ सेना॒मङ्गि॑रसो म॒हीम् ॥
विश्वे॑ । दे॒वा: । उ॒परि॑ष्टात् । उ॒ब्जन्त॑: । य॒न्तु॒ । ओज॑सा । मध्ये॑न । घ्नन्त॑: । य॒न्तु॒ । सेना॑म् । अङ्गि॑रस: । म॒हीम् ॥८.१३॥
Mantra 14
वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धी: । उ॒त । वी॒रुध॑: । द्वि॒ऽपात् । चतु॑:ऽपात् । इ॒ष्णा॒मि॒ । यथा॑ । सेना॑म् । अ॒मूम् । हन॑न् ॥८.१४॥
Mantra 15
ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्। दृ॒ष्टान॒दृष्टा॑निष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तृन् । दृ॒ष्टान् । अ॒दृष्टा॑न् । इ॒ष्णा॒मि॒ । यथा॑ । सेना॑म् । अ॒मूम् । हन॑न् ॥८.१५॥
Mantra 16
इ॒म उ॒प्ता मृ॑त्युपा॒शा याना॒क्रम्य॒ न मु॒च्यसे॑। अ॒मुष्या॑ हन्तु॒ सेना॑या इ॒दं कूटं॑ सहस्र॒शः ॥
इ॒मे । उ॒प्ता: । मृ॒त्यु॒ऽपा॒शा: । यान् । आ॒ऽक्रम्य॑ । न । मु॒च्यसे॑ । अ॒मुष्या॑: । ह॒न्तु॒ । सेना॑या: । इ॒दम् । कूट॑म् । स॒ह॒स्र॒ऽश: ॥८.१६॥
Mantra 17
घ॒र्मः समि॑द्धो अ॒ग्निना॒यं होमः॑ सहस्र॒हः। भ॒वश्च॒ पृश्नि॑बाहुश्च॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
घ॒र्म: । सम्ऽइ॑ध्द: । अ॒ग्निना॑ । अ॒यम् । होम॑: । स॒ह॒स्र॒ऽह: । भ॒व: । च॒ । पृश्नि॑ऽबाहु: । च॒ । शर्व॑ । सेना॑म् । अ॒मूम् । ह॒त॒म् ॥८.१७॥
Mantra 18
मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धं भ॒यम्। इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
मृ॒त्यो: । आष॑म् । आ । प॒द्य॒न्ता॒म् । क्षुध॑म् । से॒दिम् । व॒धम् । भ॒यम् । इन्द्र॑: । च॒ । अ॒क्षु॒ऽजा॒लाभ्या॑म् । शर्व॑ । सेना॑म् । अ॒मूम् । ह॒त॒म् ॥८.१८॥
Mantra 19
परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा। बृह॒स्पति॑प्रणुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
पराऽजिता: । प्र । त्रसत । अमित्रा: । नुत्ता: । धावत । ब्रह्मणा । बृहस्पतिऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । क: । चन ॥८.१९॥
Mantra 20
अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्। अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥
अव॑ । प॒द्य॒न्ता॒म् । ए॒षा॒म् । आयु॑धानि । मा । श॒क॒न् । प्र॒ति॒ऽधाम् । इषु॑म् । अथ॑ । ए॒षा॒म् । ब॒हु । बिभ्य॑ताम् । इष॑व: । घ्न॒न्तु॒ । मर्म॑णि ॥८.२०॥
Mantra 21
सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥
सम् । क्रो॒श॒ता॒म् । ए॒ना॒न् । द्यावा॑पृथि॒वी इति॑ । सम् । अ॒न्तरि॑क्षम् । स॒ह । दे॒वता॑भि: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥८.२१॥
Mantra 22
दिश॒श्चत॑स्रोऽश्वत॒र्यो देवर॒थस्य॑ पुरो॒डाशाः॑ श॒फा अ॒न्तरि॑क्षमु॒द्धिः। द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ऽभीश॑वोऽन्तर्दे॒शाः किं॑करा वाक्परि॑रथ्यम् ॥
दिश॑: । चत॑स्र: । अ॒श्व॒त॒र्य᳡: । दे॒व॒ऽर॒थस्य॑ । पु॒रो॒डाशा॑: । श॒फा: । अ॒न्तरि॑क्षम् । उ॒ध्दि: । द्यावा॑पृथि॒वी इति॑ । पक्ष॑सी॒ इति॑ । ऋ॒तव॑: । अ॒भीश॑व: । अ॒न्त॒:ऽदे॒शा: । कि॒म्ऽक॒रा: । वाक् । परि॑ऽरथ्यम् ॥८.२२॥
Mantra 23
सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्। इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥
स॒म्ऽव॒त्स॒र: । रथ॑: । प॒रि॒ऽव॒त्स॒र: । र॒थ॒ऽउ॒प॒स्थ: । वि॒ऽराट् । ई॒षा । अ॒ग्नि: । र॒थ॒ऽमु॒खम् । इन्द्र॑: । स॒व्य॒ऽस्था: । च॒न्द्रमा॑: । सार॑थि: ॥८.२३॥
Mantra 24
इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑। इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑। नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ॥
इ॒त: । ज॒य॒ । इ॒त: । वि । ज॒य॒ । सम् । ज॒य॒ । जय॑ । स्वाहा॑ । इ॒मे । ज॒य॒न्तु॒ । परा॑ । अ॒मी इति॑ । ज॒य॒न्ता॒म् । स्वाहा॑ । ए॒भ्य: । दु॒राहा॑ । अ॒मीभ्य॑: । नी॒ल॒ऽलो॒हि॒तेन॑ । अ॒मून् । अ॒भि॒ऽअव॑तनोमि ॥८.२४॥