Mantra 1
यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ। दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ॥
यौ । ते॒ । मा॒ता । उ॒त्ऽम॒मार्ज॑ । जा॒ताया॑: । प॒ति॒ऽवेद॑नौ । दु॒:ऽनामा॑ । तत्र॑ । मा । गृ॒ध॒त् । अ॒लिंश॑: । उ॒त । व॒त्सऽप॑: ॥६.१॥
Mantra 2
प॑लालानुपला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम्। आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ॥
प॒ला॒ल॒ऽअ॒नु॒प॒ला॒लौ । शर्कु॑म् । कोक॑म् । म॒लि॒म्लु॒चम् । प॒लीज॑कम् । आ॒ऽश्रेष॑म् । व॒व्रिऽवा॑ससम् । ऋक्ष॑ऽग्रीवम् । प्र॒ऽमी॒लिन॑म् ॥६.२॥
Mantra 3
मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा। कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ॥
मा । सम् । वृ॒त॒: । मा । उप॑ । सृ॒प॒: । ऊ॒रू इति॑ । मा । अव॑ । सृ॒प॒: । अ॒न्त॒रा । कृ॒णोमि॑ । अ॒स्यै॒ । भे॒ष॒जम् । ब॒जम् । दु॒र्ना॒म॒ऽचात॑नम् ॥६.३॥
Mantra 4
दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः। अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम् ॥
दु॒:ऽनामा॑ । च॒ । सु॒ऽनाम॑ । च॒ । उ॒भा । स॒म्ऽवृत॑म् । इ॒च्छ॒त॒:। अ॒राया॑न् । अप॑ । ह॒न्म॒: । सु॒ऽनामा॑ । स्त्रैण॑म् । इ॒च्छ॒ता॒म् ॥६.४॥
Mantra 5
यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः। अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सोऽप॑ हन्मसि ॥
य: । कृ॒ष्ण: । के॒शी । असु॑र: । स्त॒म्ब॒ऽज: । उ॒त । तुण्डि॑क: । अ॒राया॑न् । अ॒स्या॒: । मु॒ष्काभ्या॑म् । भंस॑स: । अप॑ । ह॒न्म॒सि॒ ॥६.५॥
Mantra 6
अ॑नुजि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम्। अ॒रायां॑छ्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ॥
अ॒नु॒ऽजि॒घ्रम् । प्र॒ऽमृ॒शन्त॑म् । क्र॒व्य॒ऽअद॑म् । उ॒त । रे॒रि॒हम् । अ॒राया॑न् । श्व॒ऽकि॒ष्किण॑: । ब॒ज: । पि॒ङ्ग: । अ॒नी॒न॒श॒त् ॥६.६॥
Mantra 7
यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च। ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ॥
य: । त्वा॒ । स्वप्ने॑ । नि॒ऽपद्य॑ते । भ्राता॑ । भू॒त्वा । पि॒ताऽइ॑व । च॒ । ब॒ज: । तान् । स॒ह॒ता॒म् । इ॒त: । क्ली॒बऽरू॑पान् । ति॒री॒टिन॑: ॥६.७॥
Mantra 8
यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम्। छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत् ॥
य: । त्वा॒ । स्व॒पन्ती॑म् । त्सर॑ति । य: । त्वा॒ । दिप्स॑ति । जाग्र॑तीम् । छा॒याम्ऽइ॑व । प्र । तान् । सूर्य॑: । प॒रि॒ऽक्राम॑न् । अ॒नी॒न॒श॒त् ॥६.८॥
Mantra 9
यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥
य: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥
Mantra 10
ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑। कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑। तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ॥
ये । शाला॑: । प॒रि॒ऽनृत्य॑न्ति । सा॒यम्। ग॒र्द॒भ॒ऽना॒दिन॑: । कु॒सूला॑: । ये । च॒ । कु॒क्षि॒ला: । क॒कु॒भा: । क॒रुमा॑: । स्त्रि॒मा॑: । तान् । ओ॒ष॒धे॒ । त्वम् । ग॒न्धेन॑ । वि॒षू॒चीना॑न् । वि । ना॒श॒य॒ ॥६.१०॥ १४
Mantra 11
ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति। क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥
ये । कु॒कुन्धा॑: । कु॒कूर॑भा: । कृत्ती॑: । दू॒र्शानि॑ । बिभ्र॑ति । क्ली॒बा:ऽइ॑व । प्र॒ऽनृत्य॑न्त: । वने॑ । ये । कु॒र्वते॑ । घोष॑म् । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.११॥
Mantra 12
ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः। अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥
ये । सूर्य॑म् । न । तिति॑क्षन्ते । आ॒ऽतप॑न्तम् । अ॒मुम् । दि॒व: । अ॒राया॑न् । ब॒स्त॒ऽवा॒सिन॑: । दु॒:ऽगन्धी॑न् । लोहि॑तऽआस्यान् । मक॑कान् । ना॒श॒या॒म॒सि॒ ॥६.१२॥
Mantra 13
य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति। स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ॥
ये । आ॒त्मान॑म् । अ॒ति॒ऽमा॒त्रम् । अंसे॑ । आ॒ऽधाय॑ । बिभ्र॑ति । स्त्री॒णाम् । श्रो॒णि॒ऽप्र॒तो॒दिन॑: । इन्द्र॑ । रक्षां॑सि । ना॒श॒य॒ ॥६.१३॥
Mantra 14
ये पूर्वे॑ व॒ध्वो॒ यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः। आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥
ये । पूर्वे॑ । व॒ध्व᳡: । यन्ति॑ । हस्ते॑ । शृङ्गा॑णि । बिभ्र॑त: । आ॒पा॒के॒ऽस्था: । प्र॒ऽहा॒सिन॑: । स्त॒म्बे । ये । कु॒र्वते॑ । ज्योति॑: । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.१४॥
Mantra 15
येषां॑ प॒श्चात्प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑। ख॑ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑। तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ॥
येषा॑म् । प॒श्चात् । प्रऽप॑दानि । पु॒र: । पार्ष्णी॑: । पु॒र: । मुखा॑ । ख॒ल॒ऽजा: । श॒क॒धू॒म॒ऽजा: । उरु॑ण्डा: । ये । च॒ । म॒ट्म॒टा: । कु॒म्भऽमु॑ष्का: । अ॒या॒शव॑: । तान् । अ॒स्या: । ब्र॒ह्म॒ण॒: । प॒ते॒ । प्र॒ति॒ऽबो॒धेन॑ । ना॒श॒य॒ ॥६.१५॥
Mantra 16
प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः। अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥
प॒र्य॒स्त॒ऽअ॒क्षा: । अप्र॑ऽचङ्कशा: । अ॒स्त्रै॒णा: । स॒न्तु॒ । पण्ड॑गा: । अव॑ । भे॒ष॒ज॒ । पा॒द॒य॒ । य: । इ॒माम् । स॒म्ऽविवृ॑त्सति । अप॑ति: । स्व॒प॒तिम् । स्त्रिय॑म् ॥६.१६॥
Mantra 17
उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम्। उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्। प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ॥
उ॒त्ऽह॒र्षिण॑म् । मुनि॑ऽकेशम् । ज॒म्भय॑न्तम् । म॒री॒मृ॒शम् । उ॒प॒ऽएष॑न्तम् । उ॒दु॒म्बल॑म् । तु॒ण्डेल॑म् । उ॒त । शालु॑डम् । प॒दा । प्र । वि॒ध्य॒ । पार्ष्ण्या॑ । स्था॒लीम् । गौ:ऽइ॑व । स्प॒न्द॒ना ॥६.१७॥
Mantra 18
यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते। पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ॥
य: । ते॒ । गर्भ॑म्। प्र॒ति॒ऽमृ॒शात् । जा॒तम् । वा॒ । मा॒रया॑ति । ते॒ । पि॒ङ्ग: । तम् । उ॒ग्रऽध॑न्वा । कृ॒णोतु॑ । हृ॒द॒या॒विध॑म् ॥६.१८॥
Mantra 19
ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥
ये । अ॒म्न: । जा॒तान् । मा॒रय॑न्ति । सूति॑का: । अ॒नु॒ऽशेर॑ते । स्त्रीऽभा॑गान् । पि॒ङ्ग: । ग॒न्ध॒र्वान् । वात॑: । अ॒भ्रम्ऽइ॑व । अ॒ज॒तु॒ ॥६.१९॥
Mantra 20
परि॑सृष्टं धारयतु॒ यद्धि॒तं माव॑ पादि॒ तत्। गर्भं॑ त उ॒ग्रौ र॑क्षतां भेष॒जौ नी॑विभा॒र्यौ ॥
परि॑ऽसृष्टम् । धा॒र॒य॒तु॒ । यत् । हि॒तम् । मा । अव॑ । पा॒दि॒ । तत् । गर्भ॑म् । ते॒ । उ॒ग्रौ । र॒क्ष॒ता॒म् । भे॒ष॒जौ । नी॒वि॒ऽभार्यौ᳡ । ६.२०॥
Mantra 21
पवीन॒सात्त॑ङ्ग॒ल्वा॒ च्छाय॑कादु॒त नग्न॑कात्। प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥
प॒वि॒ऽन॒सात् । त॒ङ्ग॒ल्वा᳡त् । छाय॑कात् । उ॒त । नग्न॑कात् । प्र॒ऽजायै॑ । पत्ये॑ । त्वा॒ । पि॒ङ्ग: । परि॑ । पा॒तु॒ । कि॒मी॒दिन॑: ॥६.२१॥
Mantra 22
द्व्यास्याच्चतुर॒क्षात्पञ्च॑पादादनङ्गु॒रेः। वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥
द्विऽआ॑स्यात् । च॒तु॒:ऽअ॒क्षात् । पञ्च॑ऽपादात् । अ॒न॒ङ्गु॒रे: । वृन्ता॑त् । अ॒भि । प्र॒ऽसर्प॑त: । परि॑ । पा॒हि॒ । व॒री॒वृ॒तात् ॥६.२२॥
Mantra 23
य आ॒मं मां॒समदन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः। गर्भा॒न्खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥
ये । आ॒मम् । मां॒सम् । अ॒दन्ति॑ । पौरु॑षेयम् । च॒ । ये । क्र॒वि: । गर्भा॑न् । खाद॑न्ति । के॒श॒ऽवा: । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.२३॥
Mantra 24
ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑। ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम् ॥
ये । सूर्या॑त् । प॒रि॒ऽसर्प॑न्ति । स्नु॒षाऽइ॑व । श्वशु॑रात् । अधि॑ । ब॒ज: । च॒ । तेषा॑म् । पि॒ङ्ग: । च॒ । हृद॑ये । अधि॑ । नि । वि॒ध्य॒ता॒म् ॥६.२४॥
Mantra 25
पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्। आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥
पिङ्ग॑ । रक्ष॑ । जाय॑मानम् । मा । पुमां॑सम् । स्त्रिय॑म् । क्र॒न् । आ॒ण्ड॒ऽअद॑:। गर्भा॑न् । मा । द॒भ॒न् । बाध॑स्व । इ॒त: । कि॒मी॒दिन॑: ॥६.२५॥
Mantra 26
अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम्। वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥
अ॒प्र॒जा:ऽत्वम् । मार्त॑ऽवत्सम् । आत् । रोद॑म् । अ॒घम् । आ॒ऽव॒यम् । वृ॒क्षात्ऽइ॑व । स्रज॑म् । कृ॒त्वा । अप्रि॑ये । प्रति॑ । मु॒ञ्च॒ । तत् ॥६.२६॥