Mantra 1
अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते। वी॒र्यवान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॒यम् । प्र॒ति॒ऽस॒र: । म॒णि: । वी॒र: । वी॒राय॑ । ब॒ध्य॒ते॒ । वी॒र्य᳡वान् । स॒प॒त्न॒ऽहा । शूर॑ऽवीर: । प॒रि॒ऽपान॑: । सु॒ऽम॒ङ्गल॑: ॥५.१॥
Mantra 2
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः। प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
अ॒यम् । म॒णि: । स॒प॒त्न॒ऽहा । सु॒ऽवीर॑: । सह॑स्वान् । वा॒जी । सह॑मान: । उ॒ग्र: । प्र॒त्यक् । कृ॒त्या: । दूषय॑न् । ए॒ति॒ । वी॒र: ॥५.२॥
Mantra 3
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी। अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
अ॒नेन॑ । इन्द्र॑: । म॒णिना॑ । वृ॒त्रम् । अ॒ह॒न् । अ॒नेन॑ । असु॑रान् । परा॑ । अ॒भा॒व॒य॒त् । म॒नी॒षी । अ॒नेन॑ । अ॒ज॒य॒त् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । अ॒नेन॑ । अ॒ज॒य॒त् । प्र॒ऽदिश॑: । चत॑स्र: ॥५.३॥
Mantra 4
अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः। ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥
अ॒यम् । स्रा॒क्त्य: । म॒णि: । प्र॒ति॒ऽव॒र्त: । प्र॒ति॒ऽस॒र: । ओज॑स्वान् । वि॒ऽमृ॒ध: । व॒शी । स: । अ॒स्मान् । पा॒तु॒ । स॒र्वत॑: ॥५.४॥
Mantra 5
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
तत् । अ॒ग्नि: । आ॒ह॒ । तत् । ऊं॒ इति॑ । सोम॑: । आ॒ह॒ । बृह॒स्पति॑: । स॒वि॒ता । तत् । इन्द्र॑: । ते । मे॒ । दे॒वा: । पु॒र:ऽहि॑ता: । प्र॒तीची॑: । कृ॒त्या: । प्र॒ति॒ऽस॒रै: । अ॒ज॒न्तु॒ ॥५.५॥
Mantra 6
अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
अ॒न्त: । द॒धे॒ । द्यावा॑पृथि॒वी इति॑ । उ॒त । अह॑: । उ॒त । सूर्य॑म् । ते । मे॒ । दे॒वा: । पु॒र:ऽहि॑ता: । प्र॒तीची॑: । कृ॒त्या: । प्र॒ति॒ऽस॒रै: । अ॒ज॒न्तु॒ ॥५.६॥
Mantra 7
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑। सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
ये । स्रा॒क्त्यम् । म॒णिम् । जना॑: । वर्मा॑णि । कृ॒ण्वते॑ । सूर्य॑:ऽइव । दिव॑म् । आ॒ऽरुह्य॑ । वि । कृ॒त्या: । बा॒ध॒ते॒ । व॒शी ॥५.७॥
Mantra 8
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑। अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
स्रा॒क्त्येन॑ । म॒णिना॑ । ऋषि॑णाऽइव । म॒नी॒षिणा॑ । अजै॑षम् । सर्वा॑: । पृत॑ना: । वि । मृध॑: । ह॒न्मि॒ । र॒क्षस॑: ॥५.८॥
Mantra 9
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः। उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या अति॑ ॥
या: । कृ॒त्या: । आ॒ङ्गि॒र॒सी: । या: । कृ॒त्या: । आ॒सु॒री: । या:। कृ॒त्या: । स्व॒यम्ऽकृता॑: । या: । ऊं॒ इति॑ । च॒ । अ॒न्येभि॑: । आऽभृ॑ता: । उ॒भयी॑: । ता: । परा॑ । य॒न्तु॒ । प॒रा॒ऽवत॑: । न॒व॒तिम् । ना॒व्या᳡: । अति॑ ॥५.९॥
Mantra 10
अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः। प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
अ॒स्मै । म॒णिम् । वर्म॑ । ब॒ध्न॒न्तु॒ । दे॒वा: । इन्द्र॑: । विष्णु॑: । स॒वि॒ता । रु॒द्र: । अ॒ग्नि: । प्र॒जाऽप॑ति: । प॒र॒मे॒ऽस्थी । वि॒ऽराट् । वै॒श्वा॒न॒र: । ऋष॑य: । च॒ । सर्वे॑ । ५.१०॥
Mantra 11
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वाञ्जग॑तामिव व्या॒घ्रः श्वप॑दामिव। यमैच्छा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
उ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । अ॒न॒ड्वान् । जग॑ताम्ऽइव । व्या॒घ्र: । श्वप॑दाम्ऽइव । यम् । ऐच्छा॑म । अवि॑दाम । तम् । प्र॒ति॒ऽस्पाश॑नम् । अन्ति॑तम् । ॥५..११॥
Mantra 12
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑। अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
स: । इत् । व्या॒घ्र: । भ॒व॒ति॒ । अथो॒ इति॑ । सिं॒ह: । अथो॒ इति॑ । वृषा॑ । अथो॒ इति॑ । स॒प॒त्न॒ऽकर्श॑न: । य: । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१२॥
Mantra 13
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑। सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
न । ए॒न॒म् । घ्न॒न्ति॒ । अ॒प्स॒रस॑: । न । ग॒न्ध॒र्वा: । न । मर्त्या॑: । सर्वा॑: । दिश॑: । वि । रा॒ज॒ति॒ । य: । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१३॥
Mantra 14
क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्। अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णेज॑यत्। म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥
क॒श्यप॑: । त्वाम् । अ॒सृ॒ज॒त॒ । क॒श्यप॑: । त्वा॒ । सम् । ऐ॒र॒य॒त् । अबि॑भ: । त्वा॒। इन्द्र॑: । मानु॑षे । बिभ्र॑त् । स॒म्ऽश्रे॒षि॒णे । अ॒ज॒य॒त् । म॒णिम् । स॒हस्र॑ऽवीर्यम् । वर्म । दे॒वा: । अ॒कृ॒ण्व॒त॒ ॥५.१४॥
Mantra 15
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति। प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
य: । त्वा॒ । कृ॒त्याभि॑: । य: । त्वा॒ । दी॒क्षाभि॑: । य॒ज्ञै: । य: । त्वा॒ । जिघां॑सति । प्र॒त्यक् । त्वम् । इ॒न्द्र॒ । तम् । ज॒हि॒ । वज्रे॑ण । श॒तऽप॑र्वणा ॥५.१५॥
Mantra 16
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः। प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
अ॒यम् । इत् । वै । प्र॒ति॒ऽव॒र्त: । ओज॑स्वान् । स॒म्ऽज॒य: । म॒णि: । प्र॒ऽजाम् । धन॑म् । च॒ । र॒क्ष॒तु॒ । प॒रि॒ऽपान॑: । सु॒ऽम॒ङ्गल॑: ॥५.१६॥
Mantra 17
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्। इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
अ॒स॒प॒त्नम् । न॒: । अ॒ध॒रात् । अ॒स॒प॒त्नम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒स॒प॒त्नम् । न॒: । प॒श्चात् । ज्योति॑: । शू॒र॒ । पु॒र: । कृ॒धि॒॥५.१७॥
Mantra 18
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑। वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
वर्म॑ । मे॒ । द्यावा॑पृथि॒वी इति॑ । वर्म॑ । अह॑:। वर्म॑ । सूर्य॑: । वर्म॑ । मे॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । वर्म॑ । धा॒ता । द॒धा॒तु॒ । मे॒ ॥५.१८॥
Mantra 19
ऐ॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑। तन्मे॑ त॒न्वं त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथासा॑नि ॥
ऐ॒न्द्रा॒ग्नम् । वर्म॑ । ब॒हु॒लम् । यत् । उ॒ग्रम् । विश्वे॑ । दे॒वा: । न । अ॒ति॒ऽविध्य॑न्ति । सर्वे॑ । तत्। मे॒ । त॒न्व᳡म् । त्रा॒य॒ता॒म् । स॒र्वत॑: । बृ॒हत् । आयु॑ष्मान् । ज॒रतऽअ॑ष्टि: । यथा॑ । असा॑नि ॥५.१९॥
Mantra 20
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये। इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
आ । मा॒ । अ॒रु॒क्ष॒त् । दे॒व॒ऽम॒णि: । म॒ह्यै । अ॒रि॒ष्टऽता॑तये । इ॒मम् । मे॒थिम् । अ॒भि॒ऽसंवि॑शध्वम् । त॒नू॒ऽपान॑म् । त्रि॒ऽवरू॑थम् । ओज॑से ॥५.२०॥
Mantra 21
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥
अ॒स्मिन् । इन्द्र॑: । नि । द॒धा॒तु॒ । नृ॒म्णम् । इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽसंवि॑शध्वम् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । आयु॑ष्मान् । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥५.२१॥
Mantra 22
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी। इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः। सो॑म॒पा अ॑भयङ्क॒रो वृषा॑। स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥
स्व॒स्ति॒ऽदा: । वि॒शाम् । पति॑: । वृ॒त्र॒ऽहा । वि॒ऽमृ॒ध: । व॒शी । इन्द्र॑: । ब॒ध्ना॒तु॒ । ते॒ । म॒णिम् । जि॒गी॒वान् । अप॑राऽजित: । सो॒म॒ऽपा: । अ॒भ॒य॒म्ऽक॒र: । वृषा॑ । स: । त्वा॒ । र॒क्ष॒तु॒ । स॒र्वत॑: । दिवा॑ । नक्त॑म् । च॒ । वि॒श्वत॑: ॥५.२२॥