Mantra 1
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्यर्पयतं वृषणा तमो॒वृधः॑। परा॑ शृणीतम॒चितो॒ न्योषतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥
इन्द्रा॑सोमा । तप॑तम् । रक्ष॑: । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒म॒:ऽवृध॑: । परा॑ । शृ॒णी॒त॒म् । अ॒चित॑: । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्त्रिण॑: ॥४.१॥
Mantra 2
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्यघं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व। ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् ।अ॒भि । अ॒घम् । तपु॑: । य॒य॒स्तु॒ । च॒रु: । अ॒ग्नि॒मान्ऽइ॑व । ब्र॒ह्म॒द्विषे॑ । क्र॒व्यऽअदे॑ । घो॒रऽच॑क्षसे । द्वेष॑: । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥४.२॥
Mantra 3
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
इन्द्रा॑सोमा । दु॒:ऽकृत॑: । व॒व्रे । अ॒न्त: । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यत॒: । न । ए॒षा॒म् । पुन॑: । एक॑: । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शव॑: ॥४.३॥
Mantra 4
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्। उत्त॑क्षतं स्व॒र्यं पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒व: । व॒धम् । सम् । पृ॒थि॒व्या: । अ॒घऽशं॑साय । तर्ह॑णम् । उत् । त॒क्ष॒त॒म् । स्व॒र्य᳡म् । पर्व॑तेभ्य: । येन॑ । रक्ष॑: । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थ: ॥४.४॥
Mantra 5
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः। तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒व: । परि॑ । अ॒ग्नि॒ऽत॒प्तेभि॑: । यु॒वम् । अश्म॑हन्मऽभि: । तपु॑:ऽवधेभि: । अ॒जरे॑भि: । अ॒त्त्रिण॑: । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥४.५॥
Mantra 6
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना। यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ॥
इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वत॑: । इ॒यम् । म॒ति: । क॒क्ष्या᳡: । अश्वा॑ऽइव । वा॒जिना॑ । याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् । ४.६॥
Mantra 7
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभि: । एवै॑: । ह॒तम् । द्रु॒ह: । र॒क्षस॑: । भ॒ङ्गु॒रऽव॑त: । इन्द्रा॑सोमा । दु॒:ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । य: । मा॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हु: ॥४.७॥
Mantra 8
यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः। आप॑ इव काशिना॒ संगृभीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥
य: । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभि: । वच॑:ऽभि: । आप॑:ऽइव । का॒शिना॑ । सम्ऽगृ॑भीता: । अस॑न् । अ॒स्तु॒ । अस॑त: । इ॒न्द्र॒ । व॒क्ता ॥४.८॥
Mantra 9
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑। अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवै॑: । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑: । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोम॑: । आ । वा॒ । द॒धा॒तु॒ । नि:ऽऋ॑ते: । उ॒पऽस्थे॑ ॥४.९॥
Mantra 10
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥
य: । न॒: । रस॑म् । दिप्स॑ति । पि॒त्व: । अ॒ग्ने॒ । अश्वा॑नम् । गवा॑म् । य: । त॒नूना॑म् । रि॒पु: । स्ते॒न: । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । स: । ही॒य॒ता॒म् । त॒न्वा᳡ । तना॑ । च॒ ॥४.१०॥
Mantra 11
प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
प॒र: । स: । अ॒स्तु॒ । त॒न्वा᳡ । तना॑ । च॒ । ति॒स्र: । पृ॒थि॒वी: । अ॒ध: । अ॒स्तु॒ । विश्वा॑: । प्रति॑ । शु॒ष्य॒तु॒ । यश॑: । अ॒स्य॒ । दे॒वा॒: । य: । मा॒ । दिवा॑ । दिप्स॑ति । य: । च॒ । नक्त॑म् ॥४.११॥
Mantra 12
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते। तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ । तयो॑: । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑य: । तत् । इत् । सोम॑: । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥४.१२॥
Mantra 13
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्। हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
न । वै । ऊं॒ इति॑ । सोम॑: । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् । हन्ति॑ । रक्ष॑: । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥४.१३॥
Mantra 14
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने। किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेव: । अस्मि॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । हृ॒णाी॒षे॒ । द्रो॒घ॒ऽवाच॑: । ते॒ । नि॒:ऽऋ॒थम् । स॒च॒न्ता॒म् ॥४.१४॥
Mantra 15
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य। अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधान॑: । अस्मि॑ । यदि॑। वा॒ । आयु॑: । त॒तप॑ । पुरु॑षस्य । अध॑ । स: । वी॒रै: । द॒शऽभि॑: । वि । यू॒या॒: । य: । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ ।आह॑ ॥४.१५॥
Mantra 16
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
य: । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । य: । वा॒ । र॒क्षा: । शुचि॑: । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तो: । अ॒ध॒म: । प॒दी॒ष्ट॒ ॥४.१६॥
Mantra 17
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं गूह॑माना। व॒व्रम॑न॒न्तमव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
प्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हु: । त॒न्व᳡म् । गूह॑माना । व॒व्रम् । अ॒न॒न्तम् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑ण: । घ्न॒न्तु॒ । र॒क्षस॑: । उ॒प॒ब्दै: ॥४.१७॥
Mantra 18
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्। वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒त॒: । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षस॑: । सम् । पि॒न॒ष्ट॒न॒ । वय॑: । ये ।भू॒त्वा । प॒तय॑न्ति । न॒क्तऽभि॑: । ये । वा॒ । रिप॑: । द॒धि॒रे ।दे॒वे । अ॒ध्व॒रे ॥४.१८॥
Mantra 19
प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि। प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
प्र । व॒र्त॒य॒ । दि॒व: । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ । प्रा॒क्त: । अ॒पा॒क्त: । अ॒ध॒रात् । उ॒द॒क्त: । अ॒भि । ज॒हि॒ । र॒क्षस॑: । पर्व॑तेन ॥४.१९॥
Mantra 20
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तव: । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सव॑: । अदा॑भ्यम् । शिशी॑ते । श॒क्र: । पिशु॑नेभ्य: । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२०॥
Mantra 21
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒विवा॑सताम्। अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥
इन्द्र॑: । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒र: । ह॒वि॒:ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् । अ॒भि । इत् । ऊं॒ इति॑ । श॒क्र: । प॒र॒शु: । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒त: । ए॒तु॒ । र॒क्षस॑: ॥४.२१॥
Mantra 22
उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम्। सु॑प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
उलू॑कऽयातुम् । शु॒शु॒लूक॑ऽयातुम् । ज॒हि । श्वऽया॑तुम् । उ॒त । कोक॑ऽयातुम् । सु॒प॒र्णऽया॑तुम् । उ॒त । गृध्र॑ऽयातुम् । दृ॒षदा॑ऽइव । प्र । मृ॒ण॒ । रक्ष॑: । इ॒न्द्र॒ ॥४.२२॥
Mantra 23
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑। पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
मा । न॒: । रक्ष॑: । अ॒भि॒ । न॒ट् । या॒तु॒ऽमाव॑त् । अप॑ । उ॒च्छ॒न्तु॒ । मि॒थु॒ना । ये । कि॒मी॒दिन॑: । पृ॒थि॒वी । न॒: । पार्थि॑वात् । पा॒तु॒ । अंह॑स: । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥४.२३॥
Mantra 24
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्। विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् । विऽग्री॑वास: । मूर॑ऽदेवा: । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥४.२४॥
Mantra 25
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्। रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्र॑: । च॒ । सो॒म॒ । जा॒गृ॒त॒म् । रक्ष॑:ऽभ्य: । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२५॥ ११