Mantra with Swara
इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ॥
इ॒दम् । आ॒प॒: । प्र । व॒ह॒त॒ । अ॒व॒द्यम् । च॒ । मल॑म् । च॒ । यत् । यत् । च॒ । अ॒भि॒ऽदु॒द्रोह॑ । अनृ॑तम् । यत् । च॒ । शे॒पे । अ॒भीरु॑णम् ॥९४.३॥
Mantra without Swara
इदमापः प्र वहतावद्यं च मलं च यत्। यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥
इदम् । आप: । प्र । वहत । अवद्यम् । च । मलम् । च । यत् । यत् । च । अभिऽदुद्रोह । अनृतम् । यत् । च । शेपे । अभीरुणम् ॥९४.३॥
