Mantra with Swara
यो॑३ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तस्य॒ त्वं प्रा॒णेना प्या॑यस्व। आ व॒यं प्या॑सिषीमहि॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ॥
य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तस्य॑ । त्वम् । प्रा॒णेन॑ । आ । प्या॒य॒स्व॒ । आ । व॒यम् । प्या॒शि॒षी॒म॒हि॒ । गोभि॑: । अश्वै॑: । प्र॒ऽजया॑ । प॒शुऽभि॑: । गृ॒है: । धने॑न ॥८६.५॥
Mantra without Swara
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व। आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥
य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तस्य । त्वम् । प्राणेन । आ । प्यायस्व । आ । वयम् । प्याशिषीमहि । गोभि: । अश्वै: । प्रऽजया । पशुऽभि: । गृहै: । धनेन ॥८६.५॥
