Mantra with Swara
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
अपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.४॥
Mantra without Swara
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥
अपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.४॥
