Mantra with Swara
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
या॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥
Mantra without Swara
यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥
यातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्रऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥
