Mantra with Swara
इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
इ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥
Mantra without Swara
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥
इदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥
