Mantra with Swara
म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे। तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥
म॒हीम् । ऊं॒ इति॑ । सु । मा॒तर॑म् । सु॒ऽव्र॒ताना॑म् । ऋ॒तस्य॑ । पत्नी॑म् । अव॑से । ह॒वा॒म॒हे॒ । तु॒वि॒ऽक्ष॒त्राम् । अ॒जर॑न्तीम् । ऊ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ॥६.२॥
Mantra without Swara
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥
महीम् । ऊं इति । सु । मातरम् । सुऽव्रतानाम् । ऋतस्य । पत्नीम् । अवसे । हवामहे । तुविऽक्षत्राम् । अजरन्तीम् । ऊरूचीम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ॥६.२॥
