Mantra with Swara
इन्द्रा॑वरुणा मधुमत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम्। इ॒दं वा॒मन्धः॒ परि॑षिक्तमा॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥
इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्ण॑: । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् । इ॒दम् । वा॒म् । अन्ध॑: । परि॑ऽसिक्तम् । आ॒ऽसद्य॑: । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥६०.२॥
Mantra without Swara
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम्। इदं वामन्धः परिषिक्तमासद्यास्मिन्बर्हिषि मादयेथाम् ॥
इन्द्रावरुणा । मधुमत्ऽतमस्य । वृष्ण: । सोमस्य । वृषणा । आ । वृषेथाम् । इदम् । वाम् । अन्ध: । परिऽसिक्तम् । आऽसद्य: । अस्मिन् । बर्हिषि । मादयेथाम् ॥६०.२॥
