Mantra with Swara
आयु॒र्यत्ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्। अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त्तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ॥
आयु॑: । यत् । ते॒ । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । पुन॑: । आ । तौ । इ॒ता॒म् । अ॒ग्नि: । तत् । आ । अ॒हा॒: । नि:ऽऋ॑ते : । उ॒पऽस्था॑त् । तत् । आ॒त्मनि॑ । पुन॑: । आ । वे॒श॒या॒मि॒ । ते॒ ॥५५.३॥
Mantra without Swara
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्। अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥
आयु: । यत् । ते । अतिऽहितम् । पराचै: । अपान: । प्राण: । पुन: । आ । तौ । इताम् । अग्नि: । तत् । आ । अहा: । नि:ऽऋते : । उपऽस्थात् । तत् । आत्मनि । पुन: । आ । वेशयामि । ते ॥५५.३॥
