Mantra with Swara
सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्। श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ॥
सम् । क्रा॒म॒त॒म् । मा । ज॒ही॒त॒म् । शरी॑रम् । प्रा॒णा॒पा॒नौ । ते॒ । स॒ऽयुजौ॑ । इ॒ह । स्ता॒म् । श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । अ॒ग्नि: । ते॒ । गो॒पा: । अ॒धि॒ऽपा: । वसि॑ष्ठ: ॥५५.२॥
Mantra without Swara
सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम्। शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥
सम् । क्रामतम् । मा । जहीतम् । शरीरम् । प्राणापानौ । ते । सऽयुजौ । इह । स्ताम् । शतम् । जीव । शरद: । वर्धमान: । अग्नि: । ते । गोपा: । अधिऽपा: । वसिष्ठ: ॥५५.२॥
