Mantra with Swara
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि। सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥
कु॒हूम् । दे॒वीम् । सु॒ऽकृत॑म् । वि॒द्म॒नाऽअ॑पसम् । अ॒स्मिन् । य॒ज्ञे । सु॒ऽहवा॑ । जो॒ह॒वी॒मि॒ । सा । न॒: । र॒यिम् । वि॒श्वऽवार॑म् । नि । य॒च्छा॒त् । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य᳡म् ॥४९.१॥
Mantra without Swara
कुहूं देवीं सुकृतं विद्मनापसमस्मिन्यज्ञे सुहवा जोहवीमि। सा नो रयिं विश्ववारं नि यच्छाद्ददातु वीरं शतदायमुक्थ्यम् ॥
कुहूम् । देवीम् । सुऽकृतम् । विद्मनाऽअपसम् । अस्मिन् । यज्ञे । सुऽहवा । जोहवीमि । सा । न: । रयिम् । विश्वऽवारम् । नि । यच्छात् । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥४९.१॥
