Mantra with Swara
आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हु॑वेम सद॑नं रयी॒णाम् ॥
आ । प्र॒त्यञ्च॑म् । दा॒शुषे॑ । दा॒श्वंस॑म् । सर॑स्वन्तम् । पु॒ष्ट॒ऽपति॑म् । र॒यि॒ऽस्थाम् । रा॒य: । पोष॑म् । श्र॒व॒स्युम् । वसा॑ना: । इ॒ह । हु॒वे॒म॒ । सद॑नम् । र॒यी॒णाम् ॥४१.२॥
Mantra without Swara
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥
आ । प्रत्यञ्चम् । दाशुषे । दाश्वंसम् । सरस्वन्तम् । पुष्टऽपतिम् । रयिऽस्थाम् । राय: । पोषम् । श्रवस्युम् । वसाना: । इह । हुवेम । सदनम् । रयीणाम् ॥४१.२॥
