Mantra with Swara
इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑वच्छ्रे॒ष्ठाभि॑र्मघवन्छूर जिन्व। यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
इन्द्र॑ । ऊ॒तिऽभि॑: । ब॒हुलाभि॑: । न॒: । अ॒द्य । या॒व॒त्ऽश्रे॒ष्ठाभि॑: । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ । य: । न॒: । द्वेष्टि॑ । अध॑र: । स: । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । ऊं॒ इति॑ । प्रा॒ण: । ज॒हा॒तु॒ ॥३२.१॥
Mantra without Swara
इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन्छूर जिन्व। यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥
इन्द्र । ऊतिऽभि: । बहुलाभि: । न: । अद्य । यावत्ऽश्रेष्ठाभि: । मघऽवन् । शूर । जिन्व । य: । न: । द्वेष्टि । अधर: । स: । पदीष्ट । यम् । ऊं इति । द्विष्म: । तम् । ऊं इति । प्राण: । जहातु ॥३२.१॥
