Mantra with Swara
स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्। स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ॥
सु॒ऽआक्त॑म् । मे॒ । द्यावा॑पृथि॒वी इति॑ । सु॒ऽआक्त॑म् । मि॒त्र: । अ॒क॒: । अ॒यम् । सु॒ऽआक्त॑म् । मे॒ । ब्रह्म॑ण: । पति॑: । सु॒ऽआक्त॑म् । स॒वि॒ता । क॒र॒त् ॥३१.१॥
Mantra without Swara
स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम्। स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत् ॥
सुऽआक्तम् । मे । द्यावापृथिवी इति । सुऽआक्तम् । मित्र: । अक: । अयम् । सुऽआक्तम् । मे । ब्रह्मण: । पति: । सुऽआक्तम् । सविता । करत् ॥३१.१॥
