Mantra with Swara
धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे। तस्मै॑ दे॒वा अ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥
धा॒ता । विश्वा॑ । वार्या॑ । द॒धा॒तु॒ । प्र॒जाऽका॑माय । दा॒शुषे॑ । दु॒रो॒णे । तस्मै॑ । दे॒वा: । अ॒मृत॑म् । सम् । व्य॒य॒न्तु॒ । विश्वे॑ । दे॒वा: । अदि॑ति: । स॒ऽजोषा॑: ॥१८.३॥
Mantra without Swara
धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे। तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥
धाता । विश्वा । वार्या । दधातु । प्रजाऽकामाय । दाशुषे । दुरोणे । तस्मै । देवा: । अमृतम् । सम् । व्ययन्तु । विश्वे । देवा: । अदिति: । सऽजोषा: ॥१८.३॥
