Mantra with Swara
ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
ए॒षाम् । अ॒हम् । स॒म्ऽआसी॑नानाम् । वर्च॑: । वि॒ऽज्ञान॑म् । आ । द॒दे॒ । अ॒स्या: । सर्व॑स्या: । स॒म्ऽसद॑: । माम् । इ॒न्द्र॒ । भ॒गिन॑म् । कृ॒णु॒ ॥१३.३॥
Mantra without Swara
एषामहं समासीनानां वर्चो विज्ञानमा ददे। अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥
एषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
