Mantra with Swara
एक॑शतं ल॒क्ष्म्यो॒ मर्त्य॑स्य सा॒कं त॒न्वा ज॒नुषोऽधि॑ जा॒ताः। तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥
एक॑ऽशतम् । ल॒क्ष्म्य᳡: । मर्त्य॑स्य । सा॒कम् । त॒न्वा᳡ । ज॒नुष॑: । अधि॑ । जा॒ता: । तासा॑म् । पापि॑ष्ठा: । नि: । इ॒त: । प्र । हि॒ण्म॒: । शि॒वा: । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । नि । य॒च्छ॒ ॥१२०.३॥
Mantra without Swara
एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः। तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नि यच्छ ॥
एकऽशतम् । लक्ष्म्य: । मर्त्यस्य । साकम् । तन्वा । जनुष: । अधि । जाता: । तासाम् । पापिष्ठा: । नि: । इत: । प्र । हिण्म: । शिवा: । अस्मभ्यम् । जातऽवेद: । नि । यच्छ ॥१२०.३॥
