Mantra with Swara
आ॑दिन॒वं प्र॑ति॒दीव्ने॑ घृ॒तेना॒स्माँ अ॒भि क्ष॑र। वृ॒क्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान्प्र॑ति॒दीव्य॑ति ॥
आ॒दि॒न॒वम् । प्र॒ति॒ऽदीव्ने॑ । घृ॒तेन॑ । अ॒स्मान् । अ॒भि । क्ष॒र॒ । वृ॒क्षम्ऽइ॑व । अ॒शन्या॑ । ज॒हि॒ । य: । अ॒स्मान् । प्र॒ति॒ऽदीव्य॑ति ॥११४.४॥
Mantra without Swara
आदिनवं प्रतिदीव्ने घृतेनास्माँ अभि क्षर। वृक्षमिवाशन्या जहि यो अस्मान्प्रतिदीव्यति ॥
आदिनवम् । प्रतिऽदीव्ने । घृतेन । अस्मान् । अभि । क्षर । वृक्षम्ऽइव । अशन्या । जहि । य: । अस्मान् । प्रतिऽदीव्यति ॥११४.४॥
