Mantra with Swara
यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥
यत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥
Mantra without Swara
यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥
यत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥
