Mantra with Swara
स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः। स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः स इ॒दं विश्व॑मभव॒त्स आभ॑वत् ॥
स: । वे॒द॒ । पु॒त्र: । पि॒तर॑म् । स: । मा॒तर॑म् । स: । सू॒नु: । भु॒व॒त् । स: । भु॒व॒त् । पुन॑:ऽमघ: । स: । द्याम् । औ॒र्णो॒त् । अ॒न्तरि॑क्षम् । स्व᳡: । स: । इ॒दम् । विश्व॑म् । अ॒भ॒व॒त् । स: । आ । अ॒भ॒व॒त् ॥१.२॥
Mantra without Swara
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः। स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभवत् ॥
स: । वेद । पुत्र: । पितरम् । स: । मातरम् । स: । सूनु: । भुवत् । स: । भुवत् । पुन:ऽमघ: । स: । द्याम् । और्णोत् । अन्तरिक्षम् । स्व: । स: । इदम् । विश्वम् । अभवत् । स: । आ । अभवत् ॥१.२॥
