Mantra with Swara
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः। अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥
त्राय॑ध्वम् । न॒: । अ॒घऽवि॑षाभ्य: । व॒धात् । विश्वे॑ । दे॒वा॒: । म॒रु॒त॒: । वि॒श्व॒ऽवे॒द॒स॒: । अ॒ग्नीषोमा॑ । वरु॑ण: । पू॒तऽद॑क्षा: । वा॒ता॒प॒र्ज॒न्ययो॑: । सु॒ऽम॒तौ । स्या॒म॒ ॥९३.३॥
Mantra without Swara
त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः। अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥
त्रायध्वम् । न: । अघऽविषाभ्य: । वधात् । विश्वे । देवा: । मरुत: । विश्वऽवेदस: । अग्नीषोमा । वरुण: । पूतऽदक्षा: । वातापर्जन्ययो: । सुऽमतौ । स्याम ॥९३.३॥
