Mantra with Swara
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
आप॑: । इत् । वै । ऊं॒ इति॑। भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥९१.३॥
Mantra without Swara
आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
आप: । इत् । वै । ऊं इति। भेषजी: । आप: । अमीवऽचातनी: । आप: । विश्वस्य । भेषजी: । ता: । ते । कृण्वन्तु । भेषजम् ॥९१.३॥
