Mantra with Swara
वाञ्छ॑ मे त॒न्वं पादौ॒ वाञ्छा॒क्ष्यौ॒ वाञ्छ॑ स॒क्थ्यौ॑। अ॒क्ष्यौ॑ वृष॒ण्यन्त्याः॒ केशा॒ मां ते॒ कामे॑न शुष्यन्तु ॥
वाञ्छ॑ । मे॒ । त॒न्व᳡म् । पादौ॑ । वाञ्छ॑ । अ॒क्ष्यौ᳡ । वाञ्छ॑ । स॒क्थ्यौ᳡ । अ॒क्ष्यौ᳡ । वृ॒ष॒ण्यन्त्या॑: । केशा॑: । माम् । ते॒ । कामे॑न । शु॒ष्य॒न्तु॒ ॥९.१॥
Mantra without Swara
वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ। अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥
वाञ्छ । मे । तन्वम् । पादौ । वाञ्छ । अक्ष्यौ । वाञ्छ । सक्थ्यौ । अक्ष्यौ । वृषण्यन्त्या: । केशा: । माम् । ते । कामेन । शुष्यन्तु ॥९.१॥
