Mantra with Swara
ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥
ध्रु॒व: । अच्यु॑त: । प्र । मृ॒णी॒हि॒ । शत्रू॑न् । श॒त्रु॒ऽय॒त: । अध॑रान् । पा॒द॒य॒स्व॒ । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । ध्रु॒वाय॑। ते॒ । सम्ऽइ॑ति: : । क॒ल्प॒ता॒म् । इ॒ह ॥८८.३॥
Mantra without Swara
ध्रुवोऽच्युतः प्र मृणीहि शत्रून्छत्रूयतोऽधरान्पादयस्व। सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥
ध्रुव: । अच्युत: । प्र । मृणीहि । शत्रून् । शत्रुऽयत: । अधरान् । पादयस्व । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । ध्रुवाय। ते । सम्ऽइति: : । कल्पताम् । इह ॥८८.३॥
