Mantra with Swara
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्। इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥
इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठा॒: । पर्व॑त:ऽइव । अवि॑ऽचाचलत् । इन्द्र॑:ऽइव । इ॒ह ।ध्रु॒व: । ति॒ष्ठ॒ । रा॒ष्ट्रम् । ऊं॒ इति॑ । धारय ॥८७.२॥
Mantra without Swara
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्। इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥
इह । एव । एधि । मा । अप । च्योष्ठा: । पर्वत:ऽइव । अविऽचाचलत् । इन्द्र:ऽइव । इह ।ध्रुव: । तिष्ठ । राष्ट्रम् । ऊं इति । धारय ॥८७.२॥
