Mantra with Swara
अ॒सूति॑का रामाय॒ण्यप॒चित्प्र प॑तिष्यति। ग्लौरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ॥
अ॒सूति॑का । रा॒मा॒य॒णी । अ॒प॒ऽचित् । प्र । प॒ति॒ष्य॒ति॒ । ग्लौ: । इ॒त: । प्र । प॒ति॒ष्य॒ति॒ । स: । ग॒लु॒न्त: । ना॒शि॒ष्य॒ति॒ ॥८३.३॥
Mantra without Swara
असूतिका रामायण्यपचित्प्र पतिष्यति। ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥
असूतिका । रामायणी । अपऽचित् । प्र । पतिष्यति । ग्लौ: । इत: । प्र । पतिष्यति । स: । गलुन्त: । नाशिष्यति ॥८३.३॥
